विवीरांश् च कृतान् अश्वान् विरथांश् च कृतान् नरान्। तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः। महानागान् विद्रवतो दृष्ट्वार्जुनशराहतान्। पतितान् पततश् चान्यान् मन्ये शोचन्ति पुत्रकाः। हयौघान् निहतान् दृष्ट्वा द्राव्यमाणांस् ततस् ततः। रणे सात्वतपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः।
vivīrāṃś ca kṛtān aśvān virathāṃś ca kṛtān narān. tatra sātyakipārthābhyāṃ manye śocanti putrakāḥ. mahānāgān vidravato dṛṣṭvārjunaśarāhatān. patitān patataś cānyān manye śocanti putrakāḥ. hayaughān nihatān dṛṣṭvā drāvyamāṇāṃs tatas tataḥ. raṇe sātvatapārthābhyāṃ manye śocanti putrakāḥ.