कर्णो द्वात्रिंशता चैव वृषसेनश् च पञ्चभिः। जयद्रथस् त्रिसप्तत्या कृपश् च दशभिः शरैः। मद्रराजश् च दशभिर् विव्यधुः फल्गुनं रणे।
karṇo dvātriṃśatā caiva vṛṣasenaś ca pañcabhiḥ. jayadrathas trisaptatyā kṛpaś ca daśabhiḥ śaraiḥ. madrarājaś ca daśabhir vivyadhuḥ phalgunaṃ raṇe.