तेषां विदुरवाक्यानाम् उक्तानां दीर्घदर्शिनाम्। दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः। सेनां दृष्ट्वाभिभूतां मे शैनेयेनार्जुनेन च। शून्यान् दृष्ट्वा रथोपस्थान् मन्ये शोचन्ति पुत्रकाः।
teṣāṃ viduravākyānām uktānāṃ dīrghadarśinām. dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ. senāṃ dṛṣṭvābhibhūtāṃ me śaineyenārjunena ca. śūnyān dṛṣṭvā rathopasthān manye śocanti putrakāḥ.