दुःशासनः सुबाहुश् च कलिङ्गश् चाप्य् उदायुधः। विन्दानुविन्दाव् आवन्त्यौ द्रोणो द्रौणिः ससौबलः। एते चान्ये च बहवो नानाजनपदेश्वराः। ससैन्यास् त्वाभियास्यन्ति व्येतु ते मानसो ज्वरः। मायावी बलवाञ् शूरो राक्षसश् चाप्य् अलम्बुसः। इमे च त्वाभिगोप्स्यन्ति सैन्येन महता वृताः।
duḥśāsanaḥ subāhuś ca kaliṅgaś cāpy udāyudhaḥ. vindānuvindāv āvantyau droṇo drauṇiḥ sasaubalaḥ. ete cānye ca bahavo nānājanapadeśvarāḥ. sasainyās tvābhiyāsyanti vyetu te mānaso jvaraḥ. māyāvī balavāñ śūro rākṣasaś cāpy alambusaḥ. ime ca tvābhigopsyanti sainyena mahatā vṛtāḥ.