तेजस्विनः कुमारस्य शराः परमदारुणाः। क्षिण्वन्ति हृदयं मे ऽद्य घोराः पावकतेजसः। ह्रीमत्त्वात् क्षितिपालानां पश्यताम् अद्य च द्विज। न मे ऽङ्ग हीयते किं चिन् न वै वाग् एति मां तथा। कुमारवरवीरस्य संतप्तपरमेषुभिः। बाणैर् अच्छिन्ननिर्मुक्तैः शल्यैर् अन्तर्गतं मम। विचिन्वद्भिर् इवासून् मे शरीरं न विभाव्यते। कः किं किं स धनुर्वेदो येनैकेन वयं जिताः।
tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ. kṣiṇvanti hṛdayaṃ me 'dya ghorāḥ pāvakatejasaḥ. hrīmattvāt kṣitipālānāṃ paśyatām adya ca dvija. na me 'ṅga hīyate kiṃ cin na vai vāg eti māṃ tathā. kumāravaravīrasya saṃtaptaparameṣubhiḥ. bāṇair acchinnanirmuktaiḥ śalyair antargataṃ mama. vicinvadbhir ivāsūn me śarīraṃ na vibhāvyate. kaḥ kiṃ kiṃ sa dhanurvedo yenaikena vayaṃ jitāḥ.