ततस् तूर्यसहस्राणि नानालिङ्गानि भारत। तूर्णम् आजघ्निरे हृष्टास् तावका जितकाशिनः। हाहाकारे ततः सैन्ये पाण्डवेयेषु भारत। रथसंघाश् च दह्यन्त हयानां प्रयुतानि च। तथा हयानां वृन्दानि पत्तयश् चाप्य् अनल्पकाः। गुरुपुत्रास्त्रवृर्ध्यत[?द्ध्यर्थ]म् एकज्वालम् अभूद् बलम्। वस्त्रैर् आभरणैश् छन्नैः केतुभिश् चोद्धतानलैः। धावमानैश् च पुरुषैर् देहबद्धैर् इवाग्निभिः। नादह्यमानः पाण्डूनां कश् चित् सैन्ये व्यदृश्यत। उदीर्णं द्रोणपुत्रं च दृष्ट्वा पार्थः परंतपः। गाण्डीवं ज्यां च बाणांश् च सो ऽनुमन्त्र्य महाबलः। ससर्ज प्र[?र्जाप्र]तिमं दिव्यम् अस्त्रं ब्राह्मम् अतित्वरम्।
tatas tūryasahasrāṇi nānāliṅgāni bhārata. tūrṇam ājaghnire hṛṣṭās tāvakā jitakāśinaḥ. hāhākāre tataḥ sainye pāṇḍaveyeṣu bhārata. rathasaṃghāś ca dahyanta hayānāṃ prayutāni ca. tathā hayānāṃ vṛndāni pattayaś cāpy analpakāḥ. guruputrāstravṛrdhyata[?ddhyartha]m ekajvālam abhūd balam. vastrair ābharaṇaiś channaiḥ ketubhiś coddhatānalaiḥ. dhāvamānaiś ca puruṣair dehabaddhair ivāgnibhiḥ. nādahyamānaḥ pāṇḍūnāṃ kaś cit sainye vyadṛśyata. udīrṇaṃ droṇaputraṃ ca dṛṣṭvā pārthaḥ paraṃtapaḥ. gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca so 'numantrya mahābalaḥ. sasarja pra[?rjāpra]timaṃ divyam astraṃ brāhmam atitvaram.