भग्ननीडैर् आकुलाश्वैर् आरुह्यान्ये विचेतसः। भीताः पादैर् हयान् के चित् त्वरयन्तः स्वयं रथैः। युगचक्राक्षभग्नैश् च द्रुताः के चिद् भयातुराः। रथान् विशीर्णान् उत्सृज्य पद्भिः के चिच् च विद्रुताः। हयपृष्ठगताश् चान्ये कृष्यन्ते ऽर्धच्युतासनाः।
bhagnanīḍair ākulāśvair āruhyānye vicetasaḥ. bhītāḥ pādair hayān ke cit tvarayantaḥ svayaṃ rathaiḥ. yugacakrākṣabhagnaiś ca drutāḥ ke cid bhayāturāḥ. rathān viśīrṇān utsṛjya padbhiḥ ke cic ca vidrutāḥ. hayapṛṣṭhagatāś cānye kṛṣyante 'rdhacyutāsanāḥ.