भुजैश् छिन्नैर् महाराज शरीरैश् च सहस्रशः। समास्तीर्णा धरा तत्र बभौ पुष्पैर् इवाचिता। शिरोभिः सकिरीटैश् च सुनसैश् चारुकुण्डलैः। संदष्टौष्ठपुटैः क्रोधात् तथैवोद्धृतलोचनैः। निष्कचूडामणिधरैः क्षत्रियाणां प्रियंवदैः। पङ्कजैर् इव विन्यस्तैः पतितैर् विबभौ मही। कृत्वा तत् कर्म बीभत्सुर् उग्रम् उग्रपराक्रमः।
bhujaiś chinnair mahārāja śarīraiś ca sahasraśaḥ. samāstīrṇā dharā tatra babhau puṣpair ivācitā. śirobhiḥ sakirīṭaiś ca sunasaiś cārukuṇḍalaiḥ. saṃdaṣṭauṣṭhapuṭaiḥ krodhāt tathaivoddhṛtalocanaiḥ. niṣkacūḍāmaṇidharaiḥ kṣatriyāṇāṃ priyaṃvadaiḥ. paṅkajair iva vinyastaiḥ patitair vibabhau mahī. kṛtvā tat karma bībhatsur ugram ugraparākramaḥ.