अव्यग्रान् एव हि परान् कथयस्य् अपराजितान्। हृष्टानुदीर्णान् संग्रामे न तु संजय मामकान्। हतांश् चैव विषण्णांश् च विप्रकीर्णांश् च शंससि। रथिनो विरथांश् चैव कृतान् युद्धेषु मामकान्।
avyagrān eva hi parān kathayasy aparājitān. hṛṣṭānudīrṇān saṃgrāme na tu saṃjaya māmakān. hatāṃś caiva viṣaṇṇāṃś ca viprakīrṇāṃś ca śaṃsasi. rathino virathāṃś caiva kṛtān yuddheṣu māmakān.