व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम्। अश्वांश् चतुर्भिर् न्यवधीच् चतुरो ऽस्य पतत्रिभिः। सारथिं चास्य बाणेन रथनीडाद् अपाहरत्। द्वाभ्यां ध्वजं च छत्त्रं च छित्त्वा भूमाव् अपातयत्। व्यसृजत् सायकं तीक्ष्णं केकयं प्रति भारत। व्यसृजत् सर्वतो बाणान् केकयस्य विमोहनात्। तम् अविध्यत् पृषत्केन द्रोणो राजन् स्तनान्तरे। भ्रातॄणां पञ्चमो ज्येष्ठो महाबलपराक्रमः।
vyākulīkṛtya taṃ droṇo bṛhatkṣatraṃ mahāratham. aśvāṃś caturbhir nyavadhīc caturo 'sya patatribhiḥ. sārathiṃ cāsya bāṇena rathanīḍād apāharat. dvābhyāṃ dhvajaṃ ca chattraṃ ca chittvā bhūmāv apātayat. vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata. vyasṛjat sarvato bāṇān kekayasya vimohanāt. tam avidhyat pṛṣatkena droṇo rājan stanāntare. bhrātṝṇāṃ pañcamo jyeṣṭho mahābalaparākramaḥ.