ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ। पादपीठाद् अपहृतौ तत्रापश्यम् अहं शुभौ। न नूनं कल्मषं किं चिन् मम कर्मसु विद्यते। स्त्रीरत्नाभ्यां समेतौ यन् मिथो माम् अभ्यभाषताम्। विस्मयो मे महान् आसीद् आस्त्रं मे बहु संगतम्। हृष्टानि चैव रोमाणि दृष्ट्वा तौ सहिताव् उभौ।
ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau. pādapīṭhād apahṛtau tatrāpaśyam ahaṃ śubhau. na nūnaṃ kalmaṣaṃ kiṃ cin mama karmasu vidyate. strīratnābhyāṃ sametau yan mitho mām abhyabhāṣatām. vismayo me mahān āsīd āstraṃ me bahu saṃgatam. hṛṣṭāni caiva romāṇi dṛṣṭvā tau sahitāv ubhau.