वृत्ततस् त्व् अविहीनानि कुलान्य् अल्पधनान्य् अपि। कुलसंख्यां तु गच्छन्ति कर्षन्ति च महद् यशः। वृत्तं यत्नेन संरक्षेद् वित्तम् एति च याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस् तु हतो हतः। गोभिः पशुभिर् अश्वैश् च कृष्या च सुसमृद्धया। कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः।
vṛttatas tv avihīnāni kulāny alpadhanāny api. kulasaṃkhyāṃ tu gacchanti karṣanti ca mahad yaśaḥ. vṛttaṃ yatnena saṃrakṣed vittam eti ca yāti ca. akṣīṇo vittataḥ kṣīṇo vṛttatas tu hato hataḥ. gobhiḥ paśubhir aśvaiś ca kṛṣyā ca susamṛddhayā. kulāni na prarohanti yāni hīnāni vṛttataḥ.