अम्बायास् तां कथां श्रुत्वा काशिराज्ञश् च भारत। राजर्षिः स महातेजा बभूवोद्विग्नमानसः। तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः। राजर्षिः कृपयाविष्टो महात्मा होत्रवाहनः। स वेपमान उत्थाय मातुर् अस्याः पिता तदा। तां कन्याम् अङ्कम् आरोप्य पर्याश्वासयत प्रभो।
ambāyās tāṃ kathāṃ śrutvā kāśirājñaś ca bhārata. rājarṣiḥ sa mahātejā babhūvodvignamānasaḥ. tāṃ tathāvādinīṃ śrutvā dṛṣṭvā ca sa mahātapāḥ. rājarṣiḥ kṛpayāviṣṭo mahātmā hotravāhanaḥ. sa vepamāna utthāya mātur asyāḥ pitā tadā. tāṃ kanyām aṅkam āropya paryāśvāsayata prabho.