योग इत्य् अथ सैन्यानां त्वरतां संप्रधावताम्। हयवारणशब्दश् च नेमिघोषश् च सर्वशः। शङ्खदुन्दुभिनिर्घोषस् तुमुलः सर्वतो ऽभवत्। तद् उग्रं सागरनिभं क्षुब्धं बलसमागमम्। रथपत्तिगजोदग्रं महोर्मिभिर् इवाकुलम्। धावताम् आह्वयानानां तनुत्राणि च बध्नताम्।
yoga ity atha sainyānāṃ tvaratāṃ saṃpradhāvatām. hayavāraṇaśabdaś ca nemighoṣaś ca sarvaśaḥ. śaṅkhadundubhinirghoṣas tumulaḥ sarvato 'bhavat. tad ugraṃ sāgaranibhaṃ kṣubdhaṃ balasamāgamam. rathapattigajodagraṃ mahormibhir ivākulam. dhāvatām āhvayānānāṃ tanutrāṇi ca badhnatām.