कृतास्त्रं ह्य् अर्जुनं प्राप्य भीमं च कृतनिश्रमम्। गाण्डीवं चेषुधी चैव रथं च ध्वजम् एव च। नकुलं सहदेवं च बलवीर्यसमन्वितौ। सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः।
kṛtāstraṃ hy arjunaṃ prāpya bhīmaṃ ca kṛtaniśramam. gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca. nakulaṃ sahadevaṃ ca balavīryasamanvitau. sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ.