संनद्धो ह्य् अर्जुनो याति विवृत्य परमेषुधी। गाण्डीवं गृह्य संक्रुद्धः पार्थः शस्त्रभृतां वरः। अचिरेणैव कालेन निःशेषं नः करिष्यति। न पश्यामि रणे क्रुद्धं बीभत्सुं विनिवर्तितुम्। गाण्डीवं मुहुर् आदत्ते निःश्वसंश् च निरीक्षते। अचिरेणैव कालेन निःशेषं नः करिष्यति। न पश्यामि रणे क्रुद्धं बीभत्सुं प्रतिवारणम्। भीष्मद्रोणौ च कर्णश् च द्रौणिश् च रथिनां वरः। कृपश् च वृषसेनश् च विकर्णश् च जयद्रथः। बाह्लीकः सोमदत्तश् च भूरिर् भूरिश्रवाः शलः। शकुनिः ससुतश् चैव नृपाश् चान्ये च कौरवाः। एते सर्वे रणे यत्ताः पार्थं सोढुं न शक्नुवन्। अर्जुनेन समो वीर्ये नास्ति लोके धनुर्धरः। धृतराष्ट्रः। यो ऽर्जुनेनार्जुनस् तुल्यो द्विबाहुर् बहुबाहुना। कस् त्वयोक्तः पुमान् वीरो बीभत्सुसमविक्रमः। दुर्योधनः। तं मे ब्रूहि महावीर्यं श्रोतुम् इच्छामि पुत्रक। कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्। हेहयाधिपतिर् वीरः पाञ्चदश्यः पितामहात्। धृतराष्ट्रः। गान्धारीपुत्र सर्वांस् तान् कार्तवीर्यपितामहान्। दुर्योधनः। आनुपूर्व्याच् च मे शंस ततस् तं पार्थिवं तथा। कार्तवीर्यस्य चरितं शृणु राजन् महात्मनः। अव्यक्तप्रभवो ब्रह्मा सर्वलोकपितामहः। ब्रह्मणो ऽत्रिः सुतो विद्वान् अत्रेः पुत्रो निशाकरः। सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः। तस्याप्य् अथ सुतो ऽप्य् आयुर् आयोस् तु नहुषः सुतः। नहुषस्य ययातिस् तु ययातेस् तनुजो यदुः। यदोः पुत्रो महाराज सहस्रौजेति विश्रुतः। सहस्रौजःसुतो राजंश् चक्रदासेति विश्रुतः। चक्रदासस्य दायादो हेहयो नाम पार्थिवः। हेहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः। धर्मनेत्रस्य कार्तस् तु कृतवीर्यस् तु कार्तजः। कृतवीर्यस्य तनयो अर्जुनो बलिनां वरः। स चार्जुनो महाराज तपो घोरं चकार ह। साग्रं वर्षायुतं तप्त्वा तपः परमदुश्चरम्। दत्तम् आराधयाम् आस सो ऽर्जुनो ऽत्रिसुतं मुनिम्। तस्य दत्तो वरान् प्रादाच् चतुरः पार्थिवस्य वै। पूर्वं बाहुसहस्रं तु प्रार्थितः प्रथमो वरः। अधर्मे प्रीयमाणस्य सद्भिस् तत्र निवारणम्। धर्मेण पृथिवीं जित्वा धर्मेणैवानुरञ्जयन्। संग्रामान् सुबहूञ् जित्वा हत्वा चारीन् सहस्रशः। संग्रामे यतमानस्य वधश् चैवाधिकाद् रणे। तस्य बाहुसहस्रं तु युध्यतः किल भारत। रथो ध्वजश् च संजज्ञ इत्य् एवं मे श्रुतं पुरा। तथैवं पृथिवी राजन् सप्तद्वीपा सपत्तना। ससमुद्राकरा तात बलिनोग्रेण वै जिता। स चार्जुनो ऽथ तेजस्वी सप्तद्वीपेश्वरो ऽभवत्। स च राजा महायज्ञान् आजहार महाबलः। दुर्योधनः। महीं च सकलां जित्वा असकृत् स समा बहूः। ततो ऽर्जुनः कदा चिद् वै राजन् माहिष्मतीपतिः। नर्मदां भरतश्रेष्ठ स्नातुं दारैर् ययौ सह। ततस् तु स नदीं गत्वा प्रविश्यान्तर्जलं मुदा। कर्तुं राजञ् जलक्रीडां ततो राजोपचक्रमे। तस्मिन्न् एव तु काले तु रावणो राक्षसैः सह। लङ्काया ईश्वरस् तात तं देशं प्रययौ बली। ततस् तम् अर्जुनं दृष्ट्वा नर्मदायां दशाननः। नित्यं क्रोधपरो वीरो वरदानेन मोहितः। अभ्यधावत् सुसंक्रुद्धो महेन्द्रं शम्बरो यथा। अर्जुनो ऽप्य् अथ तं दृष्ट्वा रावणं प्रत्यवारयत्। ततस् तौ चक्रतुर् युद्धं रावणश् चार्जुनश् च वै। ततस् तु दुर्जयं वीरं वरदानेन दर्पितम्। राक्षसेन्द्रं मनुष्येन्द्रो युद्ध्वा जित्वा रणे बलात्। बद्ध्वा धनुर् ज्यया राजन् विवेशाथ पुरीं स्वकाम्। स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा। मोक्षयाम् आस दृष्ट्वाथ पुरे ऽदृष्ट्वार्जुनं तदा। ततः कदा चित् तेजस्वी कार्तवीर्यार्जुनो बली। समुद्रतीरं गत्वाथ विचरन् दर्पमोहितः। अवाकिरच् छरशतैः समुद्रं स तु भारत। तं समुद्रो नमस्कृत्य कृताञ्जलिर् अभाषत। आशुगान् वीर मा मुञ्च ब्रूहि किं करवाणि ते। मदाश्रयाणि भूतानि त्वन्निसृष्टैर् महेषुभिः। अर्जुनः। बाध्यन्ते राजशार्दूल तेभ्यो देह्य् अभयं विभो। देहि सिन्धुपते युद्धम् अद्यैव त्वरया मम। समुद्रः। अथ वा पीडयामि त्वां तस्मात् त्वं कुरु मा चिरम्। लोके राजन् महावीर्या बहवो निवसन्ति ये। तेषाम् एकेन राजेन्द्र कुरु युद्धं महाबल। अर्जुनः। मत्समो यदि संग्रामे वरायुधधरः क्व चित्। समुद्रः। विद्यते तं ममाचक्ष्व यः सहेत महामृधे। महर्षिर् जमदग्निस् तु यदि राजन् परिश्रुतः। दुर्योधनः। तस्य पुत्रो रणं दातुं यथावद् वै तवार्हति। समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः। ननाद सचिवैः पूर्वं क्रोधेन महता वृतः। ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत। स तम् आश्रमम् आगम्य रामम् एवान्वपद्यत। स रामप्रतिकूलानि चकार सह बन्धुभिः। आयासं जनयाम् आस रामस्य स महात्मनः। ततस् तेजः प्रजज्वाल रामस्यामिततेजसः। प्रदहन्न् इव सैन्यानि रश्मिमान् इव तेजसा। अथ तौ चक्रतुर् युद्धं वृत्रवासवयोर् इव। ततः परशुम् आदाय नृपं बाहुसहस्रिणम्। चिच्छेद सहसा रामो बहुशाखम् इव द्रुमम्। तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः। असीन् आदाय शक्तीश् च रामं ते प्रत्यवारयन्। रामो ऽपि रथम् आस्थाय धनुर् आयम्य सत्वरः। विसृजन् परमास्त्राणि व्यधमत् पार्थिवं बलम्। ततस् तु क्षत्रिया राजञ् जामदग्न्यभयार्दिताः। विविशुर् गिरिदुर्गाणि मृगाः सिंहभयाद् इव। तेषां स्वविहितं कर्म तद्भयान् नानुतिष्ठताम्। प्रजा वृषलतां प्राप्ता ब्राह्मणानाम् अदर्शनात्। तथा ते द्रविडाः काशाः पुण्ड्राश् च शबरैः सह। वृषलत्वं परिगता ह्य् उच्छिन्नाः क्षत्रकर्मणः। ततस् तु हतवीरासु क्षत्रियासु पुनः पुनः। द्विजैर् अभ्युदितं क्षत्रं तानि रामो निहत्य च। ततस् त्रिःसप्तमं वारं रामं वाग् अशरीरिणी। दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता। राम राम निवर्तस्व गुणांश् चाथ प्रपश्यसि। क्षत्रबन्धून् इमान् प्राणैर् विप्रयुज्य पुनः पुनः। तथैव तं महात्मानम् ऋचीकप्रमुखास् तथा। राम राम महावीर निवर्तस्वेत्य् अथाब्रुवन्। पितुर् वधम् अमृष्यंस् तु रामः प्रोवाच तान् ऋषीन्। पितरः। नार्हा हन्त भवन्तो मां निवारयितुम् इत्य् उत। नार्हसि क्षत्रबन्धूंस् त्वं निहन्तुं जयतां वर। दुर्योधनः। न हि युक्तस् तथाघातो ब्राह्मणेन सता त्वया। पितॄणां वचनं श्रुत्वा क्रोधं त्यक्त्वा स भार्गवः। अश्वमेधसहस्राणि नरमेधशतानि च। इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ। तेन रामेण संग्रामे तुल्यस् तात धनंजयः। कार्तवीर्येण च रणे तुल्यः पार्थो न संशयः। रणे विक्रम्य राजेन्द्र पार्थं जेतुं न शक्यते। दुर्योधनः। शृणु राजन् पुराचिन्त्यान् अर्जुनस्य च साहसान्। अर्जुनो धन्विनां श्रेष्ठो दुष्कृतं कृतवान् पुरा। द्रुपदस्य पुरे राजन् द्रौपद्याश् च स्वयंवरे। आबालवृद्धसंघोषे सर्वक्षत्रसमागमे। क्षिप्रकारी जले मत्स्यं दुर्निरीक्ष्यं ससर्ज ह। सर्वैर् नृपैर् असाध्यं तत् कार्मुकप्रवरं च वै। क्षणेन सज्यम् अकरोत् सर्वक्षत्रस्य पश्यतः। ततो यन्त्रमयं विद्ध्वा विवाहं फल्गुनो बली। कृष्णया हेममाल्येन स्कन्धे स परिवेष्टितः। ततस् तया वृतं पार्थं दृष्ट्वा सर्वे नृपास् तदा। रोषात् सर्वायुधान् गृह्य क्रुद्धा वीरा महाबलाः। वैकर्तनं पुरस्कृत्य सर्वे पार्थम् उपाद्रवन्। स दृष्ट्वा पार्थिवान् सर्वान् क्रुद्धान् पार्थो महाबलः। वारयित्वा शरैस् तीक्ष्णैर् अजयत् तत्र स स्वयम्। जित्वा तु तान् महीपालान् सर्वान् कर्णपुरोगमान्। लेभे कृष्णां शुभां पार्थो युद्ध्वा वीर्यबलात् तदा। सर्वक्षत्रसमूहेषु अम्बां भीष्मो यथा पुरा। ततः कदा चिद् बीभत्सुस् तीर्थयात्रां ययौ स्वयम्। अथोलूपीं शुभां जातां नागराजसुतां तदा। नागेष्व् अवाप चाग्र्येषु प्रार्थितो ऽथ यथातथम्। ततो गोदावरीं बण्णां कावेरीं चावगाहत। ततः पाण्ड्यं समासाद्य तस्य कन्याम् अवाप सः। लब्ध्वा जिष्णुर् मुदं तत्र ततो याम्यां ययौ दिशम्। स दक्षिणं समुद्रान्तं गत्वा चाप्सरसां च वै। कुमारीतीर्थम् आसाद्य मोक्षयाम् आस चार्जुनः। ग्राहरूपान्विताः पञ्च अतिशौर्येण वै बलात्। कन्यातीर्थं समभ्येत्य ततो द्वारवतीं ययौ। तत्र कृष्णनिदेशात् स सुभद्रां प्राप्य फल्गुनः। ताम् आरोप्य रथोपस्थे प्रययौ स्वपुरीं प्रति। अथादाय गते पार्थे ते श्रुत्वा सर्वयादवाः। तम् अभ्यधावन् संक्रुद्धाः सिंहं व्याघ्रगणा इव। प्रद्युम्नः कृतवर्मा च गदः सारणसात्यकी। आहुकश् चैव साम्बश् च चारुदेष्णो विडूरथः। अन्ये च यादवाः सर्वे बलदेवपुरोगमाः। एकम् एव ऋते कृष्णं गजवाजिरथैर् युताः। अथासाद्य वने यान्तं परिवार्य धनंजयम्। चक्रुर् युद्धं सुसंक्रुद्धा बहुकोट्यश् च यादवाः। एक एव तु पार्थस् तैर् युद्धं चक्रे सुदारुणम्। तेन तेषां समं युद्धं मुहूर्तं प्रबभूव ह। ततः पार्थो रणे सर्वान् वारयित्वा शितैः शरैः। बलाद् विजित्य राजेन्द्र वीरस् तान् सर्वयादवान्। दुर्योधनः। तां सुभद्रां समादाय शक्रप्रस्थं विवेश ह। भूयः शृणु महाराज फल्गुनस्य तु साहसम्। ददौ च वह्नेर् बीभत्सुः प्रार्थितं खाण्डवं वनम्। लब्धमात्रे तु तेनाथ भगवान् हव्यवाहनः। भक्षितुं खाण्डवं राजंस् ततः समुपचक्रमे। ततस् तं भक्षयन्तं वै सव्यसाची विभावसुम्। रथी धन्वी शरान् गृह्य स कलापयुतः प्रभुः। पालयाम् आस राजेन्द्र स्ववीर्येण महाबलः। ततः श्रुत्वा महेन्द्रस् तं मेघांस् तान् संदिदेश ह। तेनोक्ता मेघसंघास् ते ववर्षुर् अतिवृष्टिभिः। ततो मेघगणान् पार्थः शरव्रातैः समन्ततः। खगमैर् वारयाम् आस तद् आश्चर्यम् इवाभवत्। वारितान् मेघसंघांश् च श्रुत्वा क्रुद्धः पुरंदरः। पाण्डरं गजम् आस्थाय सर्वदेवगणैर् वृतः। ययौ पार्थेन संयोद्धुं रक्षार्थं खाण्डवस्य च। रुद्राश् च मरुतश् चैव वसवश् चाश्विनौ तदा। आदित्याश् चैव साध्याश् च विश्वेदेवाश् च भारत। गन्धर्वाश् चैव सहिता अन्ये सुरगणाश् च ये। ते सर्वे शस्त्रसंपन्ना दीप्यमानाः स्वतेजसा। धनंजयं जिघांसन्तः प्रपेतुर् विबुधाधिपाः। युगान्ते यानि दृश्यन्ते निमित्तानि महान्त्य् अपि। सर्वाणि तत्र दृश्यन्ते सुघोराणि महीपते। ततो देवगणाः सर्वे पार्थं समभिदुद्रुवुः। असंभ्रान्तस् तु तान् दृष्ट्वा स तां देवमयीं चमूम्। त्वरितः फल्गुनो गृह्य तीक्ष्णाग्रान् आशुगांस् तदा। शक्र देवांश् च संप्रेक्ष्य तस्थौ काल इवात्यये। ततो देवगणाः सर्वे बीभत्सुं सपुरंदराः। अवाकिरञ् शरव्रातैर् मानुषं तं महीपते। ततः पार्थो महातेजा गाण्डीवं गृह्य सत्वरः। वारयाम् आस देवानां शरव्रातैः शरांस् तदा। पुनः क्रुद्धाः सुराः सर्वे मर्त्यं संख्ये महाबलाः। नानाशस्त्रैर् ववर्षुस् तं सव्यसाचिं महीपते। तान् पार्थः शस्त्रवर्षान् वै विसृष्टान् विबुधैस् तदा। द्विधा त्रिधा च चिच्छेद ख एव निशितैः शरैः। पुनश् च पार्थः संक्रुद्धो मण्डलीकृतकार्मुकः। देवसंघाञ् शरैस् तीक्ष्णैर् अर्पयद् वै समन्ततः। ततो देवगणाः सर्वे युद्ध्वा पार्थेन वै मुहुः। रणे जेतुम् अशक्यं तं ज्ञात्वा ते भरतर्षभ। शान्तास् ते विबुधाः सर्वे पार्थबाणाभिपीडिताः। सद्विपं वासवं त्यक्त्वा दुद्रुवुः सर्वतोदिशम्। प्राचीं रुद्राः सगन्धर्वा दक्षिणां मरुतो युधि। दिशं प्रतीचीं भीतास् ते वसवश् च तथाश्विनौ। आदित्याश् चैव विश्वे च दुद्रुवुर् वा उदङ्मुखाः। साध्याश् चोर्ध्वमुखा भीताश् चिन्तयन् पार्थसायकान्। एवं सुरगणाः सर्वे प्राद्रवन् सर्वतोदिशम्। मुहुर् मुहुः प्रेक्षमाणाः पार्थम् एव सकार्मुकम्। विद्रुतान् देवसंघांस् तान् रणे दृष्ट्वा पुरंदरः। ततः क्रुद्धो महातेजाः पार्थं बाणैर् अवाकिरत्। पार्थो ऽपि शक्रं विव्याध मानुषो विबुधाधिपम्। ततः सो ऽश्ममयं वर्षं व्यसृजद् विबुधाधिपः। तच् छरैर् अर्जुनो वर्षं प्रतिजघ्ने ऽत्यमर्षणः। अथ संवर्धयाम् आस तद् वर्षं देवराड् अपि। भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः। सो ऽश्मवर्षं महावेगम् इषुभिः पाण्डवो ऽपि च। विलयं गमयाम् आस हर्षयन् पाकशासनम्। उपादाय तु पाणिभ्याम् अङ्गदं नाम पर्वतम्। सद्रुमं व्यसृजच् छक्रो जिघांसुः श्वेतवाहनम्। ततो ऽर्जुनो वेगवद्भिर् ज्वलमानैर् अजिह्मगैः। बाणैर् विध्वंसयाम् आस गिरिराजं सहस्रशः। शक्रं च वारयाम् आस शरैः पार्थो बलाद् युधि। ततः शक्रो महाराज रणे वीरं धनंजयम्। ज्ञात्वा जेतुम् अशक्यं तं तेजोबलसमन्वितम्। परां प्रीतिं ययौ तत्र पुत्रशौर्येण वासवः। तदा तत्र न तस्यासीद् दिवि कश् चिन् महायशाः। समर्थो निर्जये राजन्न् अपि साक्षात् प्रजापतिः। ततः पार्थः शरैर् हत्वा यक्षराक्षसपन्नगान्। दीप्ते चाग्नौ महातेजाः पातयाम् आस संततम्। प्रतिषेधयितुं पार्थं न शेकुस् तत्र के चन। दृष्ट्वा निवारितं शक्रं दिवि देवगणैः सह। यथा सुपर्णः सोमार्थं विबुधान् अजयत् पुरा। तथा जित्वा सुरान् पार्थस् तर्पयाम् आस पावकम्। ततो ऽर्जुनः स्ववीर्येण तर्पयित्वा विभावसुम्। रथं ध्वजं हयांश् चैव दिव्यास्त्राणि सभां च वै। गाण्डीवं च धनुःश्रेष्ठं तूणी चाक्षयसायकौ। दुर्योधनः। एतान्य् अवाप बीभत्सुर् लेभे कीर्तिं च भारत। भूयो ऽपि शृणु राजेन्द्र पार्थो गत्वोत्तरां दिशम्। विजित्य नव वर्षांश् च सपुरांश् च सपर्वतान्। जम्बूद्वीपं वशे कृत्वा सर्वं तद् भरतर्षभ। बलाज् जित्वा नृपान् सर्वान् करे च विनिवेश्य च। रत्नान्य् आदाय सर्वाणि गत्वा चैव पुनः पुरीम्। ततो ज्येष्ठं महात्मानं धर्मराजं युधिष्ठिरम्। राजसूयं क्रतुश्रेष्ठं कारयाम् आस भारत। एतान्य् अन्यानि कर्माणि कृतवान् अर्जुनः पुरा। अर्जुनेन समो वीर्ये नास्ति लोके पुमान् क्व चित्। देवदानवयक्षाश् च पिशाचोरगराक्षसाः। भीष्मद्रोणादयः सर्वे कुरवश् च महारथाः। लोके सर्वनृपाश् चैव वीराश् चान्ये धनुर्धराः। एते चान्ये च बहवः परिवार्य महीपते। एकं पार्थं रणे यत्ताः प्रतियोद्धुं न शक्नुवन्। अहं हि नित्यं कौरव्य फल्गुनं प्रतिसत्तमम्। अपश्यं चिन्तयित्वा तं समुद्विग्नो ऽस्मि तद्भयात्। गृहे गृहे च पश्यामि तात पार्थम् अहं सदा। शरगाण्डीवसंयुक्तं पाशहस्तम् इवान्तकम्। अपि पार्थसहस्राणि भीतः पश्यामि भारत। पार्थभूतम् इदं सर्वं नगरं प्रतिभाति मे। पार्थम् एव हि पश्यामि रहिते तात भारत। दृष्ट्वा स्वप्नगतं पार्थम् उद्भ्रान्तम् इव मे मनः। अकारादीनि नामानि अर्जुनत्रस्तचेतसः। अश्वाश् चार्था ह्य् अजाश् चैव त्रासं संजनयन्ति मे। नास्ति पार्थाद् ऋते तात परवीराद् भयं मम। प्रह्लादं वा बलिं वापि हन्याद् धि विजयो रणे। तस्मात् तेन महाराज युद्धम् अस्मज्जनक्षयम्। अहं तस्य प्रभावज्ञो नित्यं दुःखं वसामि च। पुरापि दण्डकारण्ये मारीचस्य यथा भयम्। धृतराष्ट्रः। भवेद् रामे महावीर्ये तथा पार्थे भयं मम। जानाम्य् एव महावीर्यं जिष्णोर् एतद् दुरासदम्। तात वीरस्य पार्थस्य मा कार्षीस् त्वं तु विप्रियम्। द्यूतं वा शस्त्रयुद्धं वा दुर्वाक्यं वा कदा चन। एतेष्व् एवं कृते तस्य विग्रहश् चैव वो भवेत्। तस्मात् त्वं पुत्र पार्थेन नित्यं स्नेहेन वर्तय। यश् च पार्थेन संबन्धाद् वर्तते च नरो भुवि। तस्य नास्ति भयं किञ् चित् त्रिषु लोकेषु भारत। दुर्योधनः। तस्मात् त्वं जिष्णुना वत्स नित्यं स्नेहेन वर्तय। द्यूते पार्थस्य कौरव्य मायया निकृतिः कृता। धृतराष्ट्रः। तस्माद् धि तं जहि तदा अन्योपायो न नो भवेत्। उपायश् च न कर्तव्यः पाण्डवान् प्रति भारत। पार्थान् प्रति पुरा वत्स बहूपायाः कृतास् त्वया। तान्य् अपायानि कौन्तेया बहुशो व्यतिचक्रमुः। तस्माद् धितं जीविताय नः कुलस्य जनस्य च। त्वं चिकीर्षसि चेद् वत्स समित्रः सहबान्धवः। सभ्रातृकस् त्वं पार्थेन नित्यं स्नेहेन वर्तय। वैशंपायनः। धृतराष्ट्रवचः श्रुत्वा राजा दुर्योधनस् तदा। चिन्तयित्वा मुहूर्तं तु विधिना चोदितो ऽब्रवीत्।
saṃnaddho hy arjuno yāti vivṛtya parameṣudhī. gāṇḍīvaṃ gṛhya saṃkruddhaḥ pārthaḥ śastrabhṛtāṃ varaḥ. acireṇaiva kālena niḥśeṣaṃ naḥ kariṣyati. na paśyāmi raṇe kruddhaṃ bībhatsuṃ vinivartitum. gāṇḍīvaṃ muhur ādatte niḥśvasaṃś ca nirīkṣate. acireṇaiva kālena niḥśeṣaṃ naḥ kariṣyati. na paśyāmi raṇe kruddhaṃ bībhatsuṃ prativāraṇam. bhīṣmadroṇau ca karṇaś ca drauṇiś ca rathināṃ varaḥ. kṛpaś ca vṛṣasenaś ca vikarṇaś ca jayadrathaḥ. bāhlīkaḥ somadattaś ca bhūrir bhūriśravāḥ śalaḥ. śakuniḥ sasutaś caiva nṛpāś cānye ca kauravāḥ. ete sarve raṇe yattāḥ pārthaṃ soḍhuṃ na śaknuvan. arjunena samo vīrye nāsti loke dhanurdharaḥ. dhṛtarāṣṭraḥ. yo 'rjunenārjunas tulyo dvibāhur bahubāhunā. kas tvayoktaḥ pumān vīro bībhatsusamavikramaḥ. duryodhanaḥ. taṃ me brūhi mahāvīryaṃ śrotum icchāmi putraka. kārtavīryārjuno nāma rājā bāhusahasravān. hehayādhipatir vīraḥ pāñcadaśyaḥ pitāmahāt. dhṛtarāṣṭraḥ. gāndhārīputra sarvāṃs tān kārtavīryapitāmahān. duryodhanaḥ. ānupūrvyāc ca me śaṃsa tatas taṃ pārthivaṃ tathā. kārtavīryasya caritaṃ śṛṇu rājan mahātmanaḥ. avyaktaprabhavo brahmā sarvalokapitāmahaḥ. brahmaṇo 'triḥ suto vidvān atreḥ putro niśākaraḥ. somasya tu budhaḥ putro budhasya tu purūravāḥ. tasyāpy atha suto 'py āyur āyos tu nahuṣaḥ sutaḥ. nahuṣasya yayātis tu yayātes tanujo yaduḥ. yadoḥ putro mahārāja sahasraujeti viśrutaḥ. sahasraujaḥsuto rājaṃś cakradāseti viśrutaḥ. cakradāsasya dāyādo hehayo nāma pārthivaḥ. hehayasyābhavat putro dharmanetra iti śrutaḥ. dharmanetrasya kārtas tu kṛtavīryas tu kārtajaḥ. kṛtavīryasya tanayo arjuno balināṃ varaḥ. sa cārjuno mahārāja tapo ghoraṃ cakāra ha. sāgraṃ varṣāyutaṃ taptvā tapaḥ paramaduścaram. dattam ārādhayām āsa so 'rjuno 'trisutaṃ munim. tasya datto varān prādāc caturaḥ pārthivasya vai. pūrvaṃ bāhusahasraṃ tu prārthitaḥ prathamo varaḥ. adharme prīyamāṇasya sadbhis tatra nivāraṇam. dharmeṇa pṛthivīṃ jitvā dharmeṇaivānurañjayan. saṃgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ. saṃgrāme yatamānasya vadhaś caivādhikād raṇe. tasya bāhusahasraṃ tu yudhyataḥ kila bhārata. ratho dhvajaś ca saṃjajña ity evaṃ me śrutaṃ purā. tathaivaṃ pṛthivī rājan saptadvīpā sapattanā. sasamudrākarā tāta balinogreṇa vai jitā. sa cārjuno 'tha tejasvī saptadvīpeśvaro 'bhavat. sa ca rājā mahāyajñān ājahāra mahābalaḥ. duryodhanaḥ. mahīṃ ca sakalāṃ jitvā asakṛt sa samā bahūḥ. tato 'rjunaḥ kadā cid vai rājan māhiṣmatīpatiḥ. narmadāṃ bharataśreṣṭha snātuṃ dārair yayau saha. tatas tu sa nadīṃ gatvā praviśyāntarjalaṃ mudā. kartuṃ rājañ jalakrīḍāṃ tato rājopacakrame. tasminn eva tu kāle tu rāvaṇo rākṣasaiḥ saha. laṅkāyā īśvaras tāta taṃ deśaṃ prayayau balī. tatas tam arjunaṃ dṛṣṭvā narmadāyāṃ daśānanaḥ. nityaṃ krodhaparo vīro varadānena mohitaḥ. abhyadhāvat susaṃkruddho mahendraṃ śambaro yathā. arjuno 'py atha taṃ dṛṣṭvā rāvaṇaṃ pratyavārayat. tatas tau cakratur yuddhaṃ rāvaṇaś cārjunaś ca vai. tatas tu durjayaṃ vīraṃ varadānena darpitam. rākṣasendraṃ manuṣyendro yuddhvā jitvā raṇe balāt. baddhvā dhanur jyayā rājan viveśātha purīṃ svakām. sa tu taṃ bandhitaṃ śrutvā pulastyo rāvaṇaṃ tadā. mokṣayām āsa dṛṣṭvātha pure 'dṛṣṭvārjunaṃ tadā. tataḥ kadā cit tejasvī kārtavīryārjuno balī. samudratīraṃ gatvātha vicaran darpamohitaḥ. avākirac charaśataiḥ samudraṃ sa tu bhārata. taṃ samudro namaskṛtya kṛtāñjalir abhāṣata. āśugān vīra mā muñca brūhi kiṃ karavāṇi te. madāśrayāṇi bhūtāni tvannisṛṣṭair maheṣubhiḥ. arjunaḥ. bādhyante rājaśārdūla tebhyo dehy abhayaṃ vibho. dehi sindhupate yuddham adyaiva tvarayā mama. samudraḥ. atha vā pīḍayāmi tvāṃ tasmāt tvaṃ kuru mā ciram. loke rājan mahāvīryā bahavo nivasanti ye. teṣām ekena rājendra kuru yuddhaṃ mahābala. arjunaḥ. matsamo yadi saṃgrāme varāyudhadharaḥ kva cit. samudraḥ. vidyate taṃ mamācakṣva yaḥ saheta mahāmṛdhe. maharṣir jamadagnis tu yadi rājan pariśrutaḥ. duryodhanaḥ. tasya putro raṇaṃ dātuṃ yathāvad vai tavārhati. samudrasya vacaḥ śrutvā rājā māhiṣmatīpatiḥ. nanāda sacivaiḥ pūrvaṃ krodhena mahatā vṛtaḥ. tataḥ pratiyayau śīghraṃ krodhena saha bhārata. sa tam āśramam āgamya rāmam evānvapadyata. sa rāmapratikūlāni cakāra saha bandhubhiḥ. āyāsaṃ janayām āsa rāmasya sa mahātmanaḥ. tatas tejaḥ prajajvāla rāmasyāmitatejasaḥ. pradahann iva sainyāni raśmimān iva tejasā. atha tau cakratur yuddhaṃ vṛtravāsavayor iva. tataḥ paraśum ādāya nṛpaṃ bāhusahasriṇam. ciccheda sahasā rāmo bahuśākham iva drumam. taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ. asīn ādāya śaktīś ca rāmaṃ te pratyavārayan. rāmo 'pi ratham āsthāya dhanur āyamya satvaraḥ. visṛjan paramāstrāṇi vyadhamat pārthivaṃ balam. tatas tu kṣatriyā rājañ jāmadagnyabhayārditāḥ. viviśur giridurgāṇi mṛgāḥ siṃhabhayād iva. teṣāṃ svavihitaṃ karma tadbhayān nānutiṣṭhatām. prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt. tathā te draviḍāḥ kāśāḥ puṇḍrāś ca śabaraiḥ saha. vṛṣalatvaṃ parigatā hy ucchinnāḥ kṣatrakarmaṇaḥ. tatas tu hatavīrāsu kṣatriyāsu punaḥ punaḥ. dvijair abhyuditaṃ kṣatraṃ tāni rāmo nihatya ca. tatas triḥsaptamaṃ vāraṃ rāmaṃ vāg aśarīriṇī. divyā provāca madhurā sarvalokapariśrutā. rāma rāma nivartasva guṇāṃś cātha prapaśyasi. kṣatrabandhūn imān prāṇair viprayujya punaḥ punaḥ. tathaiva taṃ mahātmānam ṛcīkapramukhās tathā. rāma rāma mahāvīra nivartasvety athābruvan. pitur vadham amṛṣyaṃs tu rāmaḥ provāca tān ṛṣīn. pitaraḥ. nārhā hanta bhavanto māṃ nivārayitum ity uta. nārhasi kṣatrabandhūṃs tvaṃ nihantuṃ jayatāṃ vara. duryodhanaḥ. na hi yuktas tathāghāto brāhmaṇena satā tvayā. pitṝṇāṃ vacanaṃ śrutvā krodhaṃ tyaktvā sa bhārgavaḥ. aśvamedhasahasrāṇi naramedhaśatāni ca. iṣṭvā sāgaraparyantāṃ kāśyapāya mahīṃ dadau. tena rāmeṇa saṃgrāme tulyas tāta dhanaṃjayaḥ. kārtavīryeṇa ca raṇe tulyaḥ pārtho na saṃśayaḥ. raṇe vikramya rājendra pārthaṃ jetuṃ na śakyate. duryodhanaḥ. śṛṇu rājan purācintyān arjunasya ca sāhasān. arjuno dhanvināṃ śreṣṭho duṣkṛtaṃ kṛtavān purā. drupadasya pure rājan draupadyāś ca svayaṃvare. ābālavṛddhasaṃghoṣe sarvakṣatrasamāgame. kṣiprakārī jale matsyaṃ durnirīkṣyaṃ sasarja ha. sarvair nṛpair asādhyaṃ tat kārmukapravaraṃ ca vai. kṣaṇena sajyam akarot sarvakṣatrasya paśyataḥ. tato yantramayaṃ viddhvā vivāhaṃ phalguno balī. kṛṣṇayā hemamālyena skandhe sa pariveṣṭitaḥ. tatas tayā vṛtaṃ pārthaṃ dṛṣṭvā sarve nṛpās tadā. roṣāt sarvāyudhān gṛhya kruddhā vīrā mahābalāḥ. vaikartanaṃ puraskṛtya sarve pārtham upādravan. sa dṛṣṭvā pārthivān sarvān kruddhān pārtho mahābalaḥ. vārayitvā śarais tīkṣṇair ajayat tatra sa svayam. jitvā tu tān mahīpālān sarvān karṇapurogamān. lebhe kṛṣṇāṃ śubhāṃ pārtho yuddhvā vīryabalāt tadā. sarvakṣatrasamūheṣu ambāṃ bhīṣmo yathā purā. tataḥ kadā cid bībhatsus tīrthayātrāṃ yayau svayam. atholūpīṃ śubhāṃ jātāṃ nāgarājasutāṃ tadā. nāgeṣv avāpa cāgryeṣu prārthito 'tha yathātatham. tato godāvarīṃ baṇṇāṃ kāverīṃ cāvagāhata. tataḥ pāṇḍyaṃ samāsādya tasya kanyām avāpa saḥ. labdhvā jiṣṇur mudaṃ tatra tato yāmyāṃ yayau diśam. sa dakṣiṇaṃ samudrāntaṃ gatvā cāpsarasāṃ ca vai. kumārītīrtham āsādya mokṣayām āsa cārjunaḥ. grāharūpānvitāḥ pañca atiśauryeṇa vai balāt. kanyātīrthaṃ samabhyetya tato dvāravatīṃ yayau. tatra kṛṣṇanideśāt sa subhadrāṃ prāpya phalgunaḥ. tām āropya rathopasthe prayayau svapurīṃ prati. athādāya gate pārthe te śrutvā sarvayādavāḥ. tam abhyadhāvan saṃkruddhāḥ siṃhaṃ vyāghragaṇā iva. pradyumnaḥ kṛtavarmā ca gadaḥ sāraṇasātyakī. āhukaś caiva sāmbaś ca cārudeṣṇo viḍūrathaḥ. anye ca yādavāḥ sarve baladevapurogamāḥ. ekam eva ṛte kṛṣṇaṃ gajavājirathair yutāḥ. athāsādya vane yāntaṃ parivārya dhanaṃjayam. cakrur yuddhaṃ susaṃkruddhā bahukoṭyaś ca yādavāḥ. eka eva tu pārthas tair yuddhaṃ cakre sudāruṇam. tena teṣāṃ samaṃ yuddhaṃ muhūrtaṃ prababhūva ha. tataḥ pārtho raṇe sarvān vārayitvā śitaiḥ śaraiḥ. balād vijitya rājendra vīras tān sarvayādavān. duryodhanaḥ. tāṃ subhadrāṃ samādāya śakraprasthaṃ viveśa ha. bhūyaḥ śṛṇu mahārāja phalgunasya tu sāhasam. dadau ca vahner bībhatsuḥ prārthitaṃ khāṇḍavaṃ vanam. labdhamātre tu tenātha bhagavān havyavāhanaḥ. bhakṣituṃ khāṇḍavaṃ rājaṃs tataḥ samupacakrame. tatas taṃ bhakṣayantaṃ vai savyasācī vibhāvasum. rathī dhanvī śarān gṛhya sa kalāpayutaḥ prabhuḥ. pālayām āsa rājendra svavīryeṇa mahābalaḥ. tataḥ śrutvā mahendras taṃ meghāṃs tān saṃdideśa ha. tenoktā meghasaṃghās te vavarṣur ativṛṣṭibhiḥ. tato meghagaṇān pārthaḥ śaravrātaiḥ samantataḥ. khagamair vārayām āsa tad āścaryam ivābhavat. vāritān meghasaṃghāṃś ca śrutvā kruddhaḥ puraṃdaraḥ. pāṇḍaraṃ gajam āsthāya sarvadevagaṇair vṛtaḥ. yayau pārthena saṃyoddhuṃ rakṣārthaṃ khāṇḍavasya ca. rudrāś ca marutaś caiva vasavaś cāśvinau tadā. ādityāś caiva sādhyāś ca viśvedevāś ca bhārata. gandharvāś caiva sahitā anye suragaṇāś ca ye. te sarve śastrasaṃpannā dīpyamānāḥ svatejasā. dhanaṃjayaṃ jighāṃsantaḥ prapetur vibudhādhipāḥ. yugānte yāni dṛśyante nimittāni mahānty api. sarvāṇi tatra dṛśyante sughorāṇi mahīpate. tato devagaṇāḥ sarve pārthaṃ samabhidudruvuḥ. asaṃbhrāntas tu tān dṛṣṭvā sa tāṃ devamayīṃ camūm. tvaritaḥ phalguno gṛhya tīkṣṇāgrān āśugāṃs tadā. śakra devāṃś ca saṃprekṣya tasthau kāla ivātyaye. tato devagaṇāḥ sarve bībhatsuṃ sapuraṃdarāḥ. avākirañ śaravrātair mānuṣaṃ taṃ mahīpate. tataḥ pārtho mahātejā gāṇḍīvaṃ gṛhya satvaraḥ. vārayām āsa devānāṃ śaravrātaiḥ śarāṃs tadā. punaḥ kruddhāḥ surāḥ sarve martyaṃ saṃkhye mahābalāḥ. nānāśastrair vavarṣus taṃ savyasāciṃ mahīpate. tān pārthaḥ śastravarṣān vai visṛṣṭān vibudhais tadā. dvidhā tridhā ca ciccheda kha eva niśitaiḥ śaraiḥ. punaś ca pārthaḥ saṃkruddho maṇḍalīkṛtakārmukaḥ. devasaṃghāñ śarais tīkṣṇair arpayad vai samantataḥ. tato devagaṇāḥ sarve yuddhvā pārthena vai muhuḥ. raṇe jetum aśakyaṃ taṃ jñātvā te bharatarṣabha. śāntās te vibudhāḥ sarve pārthabāṇābhipīḍitāḥ. sadvipaṃ vāsavaṃ tyaktvā dudruvuḥ sarvatodiśam. prācīṃ rudrāḥ sagandharvā dakṣiṇāṃ maruto yudhi. diśaṃ pratīcīṃ bhītās te vasavaś ca tathāśvinau. ādityāś caiva viśve ca dudruvur vā udaṅmukhāḥ. sādhyāś cordhvamukhā bhītāś cintayan pārthasāyakān. evaṃ suragaṇāḥ sarve prādravan sarvatodiśam. muhur muhuḥ prekṣamāṇāḥ pārtham eva sakārmukam. vidrutān devasaṃghāṃs tān raṇe dṛṣṭvā puraṃdaraḥ. tataḥ kruddho mahātejāḥ pārthaṃ bāṇair avākirat. pārtho 'pi śakraṃ vivyādha mānuṣo vibudhādhipam. tataḥ so 'śmamayaṃ varṣaṃ vyasṛjad vibudhādhipaḥ. tac charair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ. atha saṃvardhayām āsa tad varṣaṃ devarāḍ api. bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ. so 'śmavarṣaṃ mahāvegam iṣubhiḥ pāṇḍavo 'pi ca. vilayaṃ gamayām āsa harṣayan pākaśāsanam. upādāya tu pāṇibhyām aṅgadaṃ nāma parvatam. sadrumaṃ vyasṛjac chakro jighāṃsuḥ śvetavāhanam. tato 'rjuno vegavadbhir jvalamānair ajihmagaiḥ. bāṇair vidhvaṃsayām āsa girirājaṃ sahasraśaḥ. śakraṃ ca vārayām āsa śaraiḥ pārtho balād yudhi. tataḥ śakro mahārāja raṇe vīraṃ dhanaṃjayam. jñātvā jetum aśakyaṃ taṃ tejobalasamanvitam. parāṃ prītiṃ yayau tatra putraśauryeṇa vāsavaḥ. tadā tatra na tasyāsīd divi kaś cin mahāyaśāḥ. samartho nirjaye rājann api sākṣāt prajāpatiḥ. tataḥ pārthaḥ śarair hatvā yakṣarākṣasapannagān. dīpte cāgnau mahātejāḥ pātayām āsa saṃtatam. pratiṣedhayituṃ pārthaṃ na śekus tatra ke cana. dṛṣṭvā nivāritaṃ śakraṃ divi devagaṇaiḥ saha. yathā suparṇaḥ somārthaṃ vibudhān ajayat purā. tathā jitvā surān pārthas tarpayām āsa pāvakam. tato 'rjunaḥ svavīryeṇa tarpayitvā vibhāvasum. rathaṃ dhvajaṃ hayāṃś caiva divyāstrāṇi sabhāṃ ca vai. gāṇḍīvaṃ ca dhanuḥśreṣṭhaṃ tūṇī cākṣayasāyakau. duryodhanaḥ. etāny avāpa bībhatsur lebhe kīrtiṃ ca bhārata. bhūyo 'pi śṛṇu rājendra pārtho gatvottarāṃ diśam. vijitya nava varṣāṃś ca sapurāṃś ca saparvatān. jambūdvīpaṃ vaśe kṛtvā sarvaṃ tad bharatarṣabha. balāj jitvā nṛpān sarvān kare ca viniveśya ca. ratnāny ādāya sarvāṇi gatvā caiva punaḥ purīm. tato jyeṣṭhaṃ mahātmānaṃ dharmarājaṃ yudhiṣṭhiram. rājasūyaṃ kratuśreṣṭhaṃ kārayām āsa bhārata. etāny anyāni karmāṇi kṛtavān arjunaḥ purā. arjunena samo vīrye nāsti loke pumān kva cit. devadānavayakṣāś ca piśācoragarākṣasāḥ. bhīṣmadroṇādayaḥ sarve kuravaś ca mahārathāḥ. loke sarvanṛpāś caiva vīrāś cānye dhanurdharāḥ. ete cānye ca bahavaḥ parivārya mahīpate. ekaṃ pārthaṃ raṇe yattāḥ pratiyoddhuṃ na śaknuvan. ahaṃ hi nityaṃ kauravya phalgunaṃ pratisattamam. apaśyaṃ cintayitvā taṃ samudvigno 'smi tadbhayāt. gṛhe gṛhe ca paśyāmi tāta pārtham ahaṃ sadā. śaragāṇḍīvasaṃyuktaṃ pāśahastam ivāntakam. api pārthasahasrāṇi bhītaḥ paśyāmi bhārata. pārthabhūtam idaṃ sarvaṃ nagaraṃ pratibhāti me. pārtham eva hi paśyāmi rahite tāta bhārata. dṛṣṭvā svapnagataṃ pārtham udbhrāntam iva me manaḥ. akārādīni nāmāni arjunatrastacetasaḥ. aśvāś cārthā hy ajāś caiva trāsaṃ saṃjanayanti me. nāsti pārthād ṛte tāta paravīrād bhayaṃ mama. prahlādaṃ vā baliṃ vāpi hanyād dhi vijayo raṇe. tasmāt tena mahārāja yuddham asmajjanakṣayam. ahaṃ tasya prabhāvajño nityaṃ duḥkhaṃ vasāmi ca. purāpi daṇḍakāraṇye mārīcasya yathā bhayam. dhṛtarāṣṭraḥ. bhaved rāme mahāvīrye tathā pārthe bhayaṃ mama. jānāmy eva mahāvīryaṃ jiṣṇor etad durāsadam. tāta vīrasya pārthasya mā kārṣīs tvaṃ tu vipriyam. dyūtaṃ vā śastrayuddhaṃ vā durvākyaṃ vā kadā cana. eteṣv evaṃ kṛte tasya vigrahaś caiva vo bhavet. tasmāt tvaṃ putra pārthena nityaṃ snehena vartaya. yaś ca pārthena saṃbandhād vartate ca naro bhuvi. tasya nāsti bhayaṃ kiñ cit triṣu lokeṣu bhārata. duryodhanaḥ. tasmāt tvaṃ jiṣṇunā vatsa nityaṃ snehena vartaya. dyūte pārthasya kauravya māyayā nikṛtiḥ kṛtā. dhṛtarāṣṭraḥ. tasmād dhi taṃ jahi tadā anyopāyo na no bhavet. upāyaś ca na kartavyaḥ pāṇḍavān prati bhārata. pārthān prati purā vatsa bahūpāyāḥ kṛtās tvayā. tāny apāyāni kaunteyā bahuśo vyaticakramuḥ. tasmād dhitaṃ jīvitāya naḥ kulasya janasya ca. tvaṃ cikīrṣasi ced vatsa samitraḥ sahabāndhavaḥ. sabhrātṛkas tvaṃ pārthena nityaṃ snehena vartaya. vaiśaṃpāyanaḥ. dhṛtarāṣṭravacaḥ śrutvā rājā duryodhanas tadā. cintayitvā muhūrtaṃ tu vidhinā codito 'bravīt.