अपरिहार्या मेघानां मागधेयं मणेः कृते। कौशिको मणिमांश् चैव ववृधाते ह्य् अनुग्रहम्। एवं प्राप्य पुरं रम्यं दुराधर्षं समन्ततः। पाण्डरे विपुले चैव तथा वाराहके ऽपि च। चैत्यके च गिरिश्रेष्ठे मातङ्गे च शिलोच्चये। एतेषु पर्वतेन्द्रेषु सर्वसिद्धिसमालयाः। यतीनाम् आश्रमाश् चैव मुनीनां च महात्मनाम्। वृषभस्य तमालस्य महावीर्यस्य वै तथा। गन्धर्वरक्षसां चैव नागानां च तथालयाः। कक्षीवतस् तपोवीर्यात् तपोदा इति विश्रुताः। पुण्यतीर्थाश् च ते सर्वे सिद्धानां चैव कीर्तिताः। मणेश् च दर्शनाद् एव भद्रं हि शिवम् आप्नुयात्।
aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte. kauśiko maṇimāṃś caiva vavṛdhāte hy anugraham. evaṃ prāpya puraṃ ramyaṃ durādharṣaṃ samantataḥ. pāṇḍare vipule caiva tathā vārāhake 'pi ca. caityake ca giriśreṣṭhe mātaṅge ca śiloccaye. eteṣu parvatendreṣu sarvasiddhisamālayāḥ. yatīnām āśramāś caiva munīnāṃ ca mahātmanām. vṛṣabhasya tamālasya mahāvīryasya vai tathā. gandharvarakṣasāṃ caiva nāgānāṃ ca tathālayāḥ. kakṣīvatas tapovīryāt tapodā iti viśrutāḥ. puṇyatīrthāś ca te sarve siddhānāṃ caiva kīrtitāḥ. maṇeś ca darśanād eva bhadraṃ hi śivam āpnuyāt.