वैरूप्याम् अङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्ष्मणसंनिपातः। एतान् हि दूते प्रवदन्ति दण्डान् वधस् तु दूतस्य न नः श्रुतो ऽपि।
vairūpyām aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ. etān hi dūte pravadanti daṇḍān vadhas tu dūtasya na naḥ śruto 'pi.