नदन्तश् चोन्नदन्तश् च गर्जन्तश् च प्लवंगमाः। क्ष्वेलन्तो धावमानाश् च ययुः प्लवगसत्तमाः। आनयिष्यामहे सीतां हनिष्यामश् च रावणम्।
nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ. kṣvelanto dhāvamānāś ca yayuḥ plavagasattamāḥ. ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam.