अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने। जनस्थाननिमित्तं हि कृतवैरो ऽस्मि राक्षसैः। निमित्तानि च घोराणि दृश्यन्ते ऽद्य बहूनि च।
api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane. janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ. nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca.