तथोक्त्वा राक्षसीस् तास् तु राक्षसेन्द्रः प्रतापवान्। निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यम् इति चिन्तयन्। ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान्।
tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān. niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan. dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān.