वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम्। मणिहेमविचित्राङ्गं बभञ्ज च महारथम्। पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह।
varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam. maṇihemavicitrāṅgaṃ babhañja ca mahāratham. pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha.