मघा ह्य् अद्य महाबाहो तृतीये दिवसे प्रभो। फल्गुन्याम् उत्तरे राजंस् तस्मिन् वैवाहिकं कुरु। रामलक्ष्मणयोर् अर्थे दानं कार्यं सुखोदयम्।
maghā hy adya mahābāho tṛtīye divase prabho. phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru. rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam.