ऋषिपुत्रास् तु तच् छ्रुत्वा वाक्यं घोराभिसंहितम्। शेपुः परमसंक्रुद्धाश् चण्डालत्वं गमिष्यसि। एवम् उक्त्वा महात्मानो विविशुस् ते स्वम् आश्रमम्।
ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam. śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi. evam uktvā mahātmāno viviśus te svam āśramam.