एतस्मिन्न् एव काले तु राजा वैरोचनिर् बलिः। निर्जित्य दैवतगणान् सेन्द्रांश् च समरुद्गणान्। कारयाम् आस तद् राज्यं त्रिषु लोकेषु विश्रुतः।
etasminn eva kāle tu rājā vairocanir baliḥ. nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān. kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ.