सारथिस् तम् अपोवाह रथेन रथिनां वरम्। ततस् तु सत्वरं राजन् पाण्डुसैन्यम् उपाद्रवत्। कुरुसैन्यं ततः सर्वं भीमसेनम् उपाद्रवत्। युधिष्ठिरश् चित्रसेनं शरवर्षैर् अवाकिरत्। चित्रसेनो ऽपि कौन्तेयं संक्रुद्धः समवारयत्। मुहूर्ताद् विमुखीकृत्य चित्रसेनं स धर्मराट्। तावकं सैन्यम् अभ्यघ्नत् समन्तान् निशितैः शरैः। तस्मिन् प्रवृत्ते तुमुले नरवीरजनक्षये। दुर्योधनः क्रोधम् उपेत्य तीव्रं। क्रोधाग्निनासौ परिदह्यमानः। अन्यं रथं समुपेत्याशु चैव। भीमं प्रविव्याध सुचित्रपुङ्खैः। दुःशासनो ऽद्यापि च चित्रसेनो। दुर्द्यूतसेवी कितवः सौबलश् च। गजानीकैः सर्वतो भीमसेनं। तथाभ्यर्दितं सहसाभ्यधावत्। तावकाश् च महाबाहो दुर्योधनपुरोगमाः। युधिष्ठिरं जिघृक्षन्तः सर्वसैन्यम् अवाक्षिपन्। दुःशासनः सौबलश् च गजानीकेन पाण्डवम्। महता परिवार्यैव क्षुद्रकैर् अभ्यताडयत्। ततो भीमः शरशतैर् दुर्योधनम् अमर्षणम्। विमुखीकृत्य तरसा गजानीकम् उपाद्रवत्। तम् आपतन्तं सहसा गजानीकं वृकोदरः। दृष्ट्वैव सुभृशं क्रुद्धो दिव्यम् अस्त्रम् उदैरयत्। गजैर् गजान् अभ्यहनद् वज्रेणेन्द्र इवासुरान्। ततो ऽन्तरिक्षं बाणौघैः शलभैर् इव पादपम्। छादयाम् आस समरे गजान् निघ्नन् वृकोदरः। ततः कुञ्जरयूथानि समेतानि सहस्रशः। व्यधमत् तरसा भीमो मेघसंघान् इवानिलः। सुवर्णजालापिहिता मणिजालैश् च कुञ्जराः। रेजुर् अभ्यधिकं संख्ये विद्युत्वन्त इवाम्बुदाः। ते वध्यमाना भीमेन गजा राजन् विदुद्रुवुः। के चिद् विभिन्नहृदयाः कुञ्जरा न्यपतन् भुवि। पतितैर् निपतद्भिश् च गजैर् हेमविभूषितैः। अशोभत मही तत्र विशीर्णैर् इव पर्वतैः। दीप्ताभै रत्नवद्भिश् च पतितैर् गजयोधिभिः। रराज भूमिः पतितैः क्षीणपुण्यैर् इव ग्रहैः। ततो भिन्नकटा नागा भिन्नकुम्भकरास् तथा। दुद्रुवुः शतशः संख्ये भीमसेनशराहताः। के चिद् वमन्तो रुधिरं भयार्ताः पर्वतोपमाः। व्यद्रवञ् शरविद्धाङ्गा धातुचित्रा इवाचलाः। महाभुजगसंकाशौ चन्दनागरुरूषितौ। अपश्यं भीमसेनस्य धनुर् विक्षिपतो भुजौ। तस्य ज्यातलनिर्घोषं श्रुत्वाशनिसमस्वनम्। विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवुर् भृशम्। भीमसेनस्य तत् कर्म राजन्न् एकस्य धीमतः। निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ। संजय उवाच। ततः श्वेताश्वसंयुक्ते नारायणसमाहिते। तिष्ठन् रथवरे श्रीमान् अर्जुनः समपद्यत। तद् बलं नृपतिश्रेष्ठ तावकं विजयो रणे। व्यक्षोभयद् उदीर्णाश्वं महोदधिम् इवानलः। दुर्योधनस् तव सुतः प्रमत्ते श्वेतवाहने। अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः। पर्यवारयद् आयान्तं युधिष्ठिरम् अमर्षणम्। क्षुरप्राणां त्रिसप्तत्या ततो ऽविध्यत पाण्डवम्। अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः। स भल्लांस् त्रिंशतस् तूर्णं तव पुत्रे न्यवेशयत्। ततो ऽधावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम्। दुष्टभावान् पराञ् ज्ञात्वा समवेता महारथाः। आजग्मुस् तं परीप्संतः कुन्तीपुत्रं युधिष्ठिरम्। नकुलः सहदेवश् च धृष्टद्युम्नश् च पार्षतः। अक्षौहिण्या परिवृतास् ते ऽभ्यधावन् युधिष्ठिरम्। भीमसेनश् च समरे मृद्नंस् तव महारथान्। अभ्यधावद् अभिप्रेप्सू राजानं शत्रुभिर् वृतम्। तांस् तु सर्वान् महेष्वासान् कर्णो वैकर्तनो नृप। शरवर्षेण महता प्रत्यवारयद् आगतान्। शरौघान् विसृजन्तस् ते प्रेरयन्तश् च तोमरान्। न शेकुर् यत्नवन्तो ऽपि राधेयं प्रतिवीक्षितुम्। तांश् च सर्वान् महेष्वासान् सर्वशस्त्रास्त्रपारगः। महता शरवर्षेण राधेयः प्रत्यवारयत्। दुर्योधनं तु विंशत्या शीघ्रम् अस्त्रम् उदीरयन्। अविध्यत् तूर्णम् अभ्येत्य सहदेवो महामनाः। स विद्धः सहदेवेन रराजाचलसंनिभः। प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः। दृष्ट्वा तव सुतं तत्र गाढविद्धं सुतेजनैः। अभ्यधावद् दृढं क्रुद्धो राधेयो रथिनां वरः। दुर्योधनं तथा दृष्ट्वा शीघ्रम् अस्त्रम् उदीर्य सः। तेन यौधिष्ठिरं सैन्यम् अवधीत् पार्षतं तथा। ततो यौधिष्ठिरं सैन्यं वध्यमानं महात्मना। सहसा प्राद्रवद् राजन् सूतपुत्रशरार्दितम्। विविधा विशिखास् तत्र संपतन्तः परस्परम्। फलैः पुङ्खान् समाजघ्नुः सूतपुत्रधनुश्च्युताः। अन्तरिक्षे शरौघाणां पततां च परस्परम्। संघर्षेण महाराज पावकः समजायत। ततो दश दिशः कर्णः शलभैर् इव यायिभिः। अभ्यघ्नंस् तरसा राजञ् शरैः परशरीरगैः। रक्तचन्दनसंदिग्धौ मणिहेमविभूषितौ। बाहू व्यत्यक्षिपत् कर्णः परमास्त्रं विदर्शयन्। ततः सर्वा दिशो राजन् सायकैर् विप्रमोहयन्। अपीडयद् भृशं कर्णो धर्मराजं युधिष्ठिरम्। ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः। निशितैर् इषुभिः कर्णं पञ्चाशद्भिः समार्पयत्। बाणान्धकारम् अभवत् तद् युद्धं घोरदर्शनम्। हाहाकारो महान् आसीत् तावकानां विशां पते। वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष। सायकैर् विविधैस् तीक्ष्णैः कङ्कपत्रैः शिलाशितैः। भल्लैर् अनेकैर् विविधैः शक्त्यृष्टिमुसलैर् अपि। यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत्। तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ। कर्णो ऽपि भृशसंक्रुद्धो धर्मराजं युधिष्ठिरम्। नाराचैर् अर्धचन्द्रैश् च वत्सदन्तैश् च संयुगे। अमर्षी क्रोधनश् चैव रोषप्रस्फुरिताननः। सायकैर् अप्रमेयात्मा युधिष्ठिरम् अभिद्रवत्। युधिष्ठिरश् चापि शतं स्वर्णपुङ्खैः शितैः शरैः। प्रहसन्न् इव तं कर्णः कङ्कपत्रैः शिलाशितैः। उरस्य् अविध्यद् राजानं त्रिभिर् भल्लैश् च पाण्डवम्। स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः। उपविश्य रथोपस्थे सूतं याहीत्य् अचोदयत्। प्राक्रोशन्त ततः सर्वे धार्तराष्ट्राः सराजकाः। गृहीध्वम् इति राजानम् अभ्यधावन्त सर्वशः। ततः शताः सप्तदश केकयानां प्रहारिणाम्। पाञ्चालैः सहिता राजन् धार्तराष्ट्रान् न्यवारयन्। तस्मिन् सुतुमुले युद्धे वर्तमाने जनक्षये। दुर्योधनश् च भीमश् च समेयातां महाबलौ। कर्णो ऽथ शरजालेन केकयानां महारथान्। व्यधमत् परमेष्वासान् अग्रतः पर्यवस्थितान्। तेषां प्रयतमानानां राधेयस्य निवारणे। रथान् पञ्चशतान् कर्णः प्राहिणोद् यमसादनम्। अविषह्यं ततो दृष्ट्वा राधेयं युधि योधिनः। भीमसेनम् उपागच्छन् कर्णबाणप्रपीडिताः। रथानीकं विदार्यैव शरजालैर् अनेकधा। कर्ण एकरथेनैव युधिष्ठिरम् उपाद्रवत्। सेनानिवेशम् आर्छन्तं मार्गणैः क्षतविक्षतम्। यमयोर् मध्यगं वीरं शनैर् यान्तं विचेतसम्। समासाद्य तु राजानं दुर्योधनहितेप्सया। सूतपुत्रस् त्रिभिस् तीक्ष्णैर् विव्याध परमेषुभिः। तथैव राजा राधेयं प्रत्यविध्यत् स्तनान्तरे। शरैस् त्रिभिश् च यन्तारं चतुर्भिश् चतुरो हयान्। चक्ररक्षौ तु पार्थस्य माद्रीपुत्रौ परंतपौ। ताव् अप्य् अधावतां कर्णं राजानं मा वधीर् इति। तौ पृथक् शरवर्षाभ्यां राधेयम् अभ्यवर्षताम्। नकुलः सहदेवश् च परमं यत्नम् आस्थितौ। तथैव तौ प्रत्यविध्यत् सूतपुत्रः प्रतापवान्। भल्लाभ्यां शितधाराभ्यां महात्मानाव् अरिंदमौ। दन्तवर्णांस् तु राधेयो निजघान मनोजवान्। युधिष्ठिरस्य संग्रामे कालवालान् हयोत्तमान्। ततो ऽपरेण भल्लेन शिरस्त्राणम् अपातयत्। कौन्तेयस्य महेष्वासः प्रहसन्न् इव सूतजः। तथैव नकुलस्यापि हयान् हत्वा प्रतापवान्। ईषां धनुश् च चिच्छेद माद्रीपुत्रस्य धीमतः। तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ। भ्रातराव् आरुरुहतुः सहदेवरथं तदा। तौ दृष्ट्वा मातुलस् तत्र विरथौ परवीरहा। अभ्यभाषत राधेयं मद्रराजो ऽनुकम्पया। योद्धव्यम् अद्य पार्थेन फल्गुनेन त्वया सह। किमर्थं धर्मराजेन युधय्से भृशरोषितः। क्षीणशस्त्रास्त्रकवचः क्षीणबाणो विबाणधिः। श्रान्तसारथिवाहश् च छन्नो ऽस्त्रैर् अरिभिस् तथा। पार्थम् आसाद्य राधेय उपहास्यो भविष्यसि। एवम् उक्तो ऽपि कर्णस् तु मद्रराजेन संयुगे। तथैव कर्णः संरब्धो युधिष्ठिरम् अताडयत्। शरैस् तीक्ष्णैः पराविध्य माद्रीपुत्रौ च पाण्डवौ। प्रहस्य समरे कर्णश् चकार विमुखं शरैः। ततः शल्यः प्रहस्येदं कर्णं पुनर् उवाच ह। रथस्थम् अतिसंरब्धं युधिष्ठिरवधे धृतम्। यदर्थं धार्तराष्ट्रेण सततं मानितो भवान्। तं पार्थं जहि राधेय किं ते हत्वा युधिष्ठिरम्। शङ्खयोर् ध्मायतोः शब्दः सुमहान् एष कृष्णयोः। श्रूयते चापघोषो ऽयं प्रावृषीवाम्बुदस्य ह। असौ निघ्नन् रथोदारान् अर्जुनः शरवृष्टिभिः। सर्वां ग्रसति नः सेनां कर्ण पश्यैनम् आहवे। पृष्ठरक्षौ च शूरस्य युधामन्यूत्तमौजसौ। उत्तरं चास्य वै शूरश् चक्रं रक्षति सात्यकिः। धृष्टद्युम्नस् तथा चास्य चक्रं रक्षति दक्षिणम्। भीमसेनश् च वै राज्ञा धार्तराष्ट्रेण युध्यते। यथा न हन्यात् तं भीमः सर्वेषां नो ऽद्य पश्यताम्। तथा राधेय क्रियतां राजा मुच्येत नो यथा। पश्यैनं भीमसेनेन ग्रस्तम् आहवशोभिनम्। यदि त्व् आसाद्य मुच्येत विस्मयः सुमहान् भवेत्। परित्राह्य् एनम् अभ्येत्य संशयं परमं गतम्। किं नु माद्रीसुतौ हत्वा राजानं च युधिष्ठिरम्। इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते। दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे। राजगृद्धी भृशं चैव शल्यवाक्यप्रचोदितः। अजातशत्रुम् उत्सृज्य माद्रीपुत्रौ च पाण्डवौ। तव पुत्रं परित्रातुम् अभ्यधावत वीर्यवान्। मद्रराजप्रणुदितैर् अश्वैर् आकाशगैर् इव। गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः। अपायाज् जवनैर् अश्वैः सहदेवस्य मारिष। ताभ्यां स सहितस् तूर्णं व्रीडन्न् इव नरेश्वरः। प्राप्य सेनानिवेशं च मार्गणैः क्षतविक्षतः। अवतीर्णो रथात् तूर्णम् आविशच् छयनं शुभम्। अपनीतशल्यः सुभृशं हृच्छल्याभिनिपीडितः। सो ऽब्रवीद् भ्रातरौ राजा माद्रीपुत्रौ महारथौ। अनीकं भीमसेनस्य पाण्डवाव् आशु गच्छताम्। जीमूत इव नर्दंस् तु युध्यते स वृकोदरः। ततो ऽन्यं रथम् आस्थाय नकुलो रथपुंगवः। सहदेवश् च तेजस्वी भ्रातरौ शत्रुकर्शनौ। तुरगैर् अग्र्यरंहोभिर् यात्वा भीमस्य शुष्मिणौ। अनीकं सहितौ तत्र भ्रातरौ पर्यवस्थितौ।
sārathis tam apovāha rathena rathināṃ varam. tatas tu satvaraṃ rājan pāṇḍusainyam upādravat. kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat. yudhiṣṭhiraś citrasenaṃ śaravarṣair avākirat. citraseno 'pi kaunteyaṃ saṃkruddhaḥ samavārayat. muhūrtād vimukhīkṛtya citrasenaṃ sa dharmarāṭ. tāvakaṃ sainyam abhyaghnat samantān niśitaiḥ śaraiḥ. tasmin pravṛtte tumule naravīrajanakṣaye. duryodhanaḥ krodham upetya tīvraṃ. krodhāgnināsau paridahyamānaḥ. anyaṃ rathaṃ samupetyāśu caiva. bhīmaṃ pravivyādha sucitrapuṅkhaiḥ. duḥśāsano 'dyāpi ca citraseno. durdyūtasevī kitavaḥ saubalaś ca. gajānīkaiḥ sarvato bhīmasenaṃ. tathābhyarditaṃ sahasābhyadhāvat. tāvakāś ca mahābāho duryodhanapurogamāḥ. yudhiṣṭhiraṃ jighṛkṣantaḥ sarvasainyam avākṣipan. duḥśāsanaḥ saubalaś ca gajānīkena pāṇḍavam. mahatā parivāryaiva kṣudrakair abhyatāḍayat. tato bhīmaḥ śaraśatair duryodhanam amarṣaṇam. vimukhīkṛtya tarasā gajānīkam upādravat. tam āpatantaṃ sahasā gajānīkaṃ vṛkodaraḥ. dṛṣṭvaiva subhṛśaṃ kruddho divyam astram udairayat. gajair gajān abhyahanad vajreṇendra ivāsurān. tato 'ntarikṣaṃ bāṇaughaiḥ śalabhair iva pādapam. chādayām āsa samare gajān nighnan vṛkodaraḥ. tataḥ kuñjarayūthāni sametāni sahasraśaḥ. vyadhamat tarasā bhīmo meghasaṃghān ivānilaḥ. suvarṇajālāpihitā maṇijālaiś ca kuñjarāḥ. rejur abhyadhikaṃ saṃkhye vidyutvanta ivāmbudāḥ. te vadhyamānā bhīmena gajā rājan vidudruvuḥ. ke cid vibhinnahṛdayāḥ kuñjarā nyapatan bhuvi. patitair nipatadbhiś ca gajair hemavibhūṣitaiḥ. aśobhata mahī tatra viśīrṇair iva parvataiḥ. dīptābhai ratnavadbhiś ca patitair gajayodhibhiḥ. rarāja bhūmiḥ patitaiḥ kṣīṇapuṇyair iva grahaiḥ. tato bhinnakaṭā nāgā bhinnakumbhakarās tathā. dudruvuḥ śataśaḥ saṃkhye bhīmasenaśarāhatāḥ. ke cid vamanto rudhiraṃ bhayārtāḥ parvatopamāḥ. vyadravañ śaraviddhāṅgā dhātucitrā ivācalāḥ. mahābhujagasaṃkāśau candanāgarurūṣitau. apaśyaṃ bhīmasenasya dhanur vikṣipato bhujau. tasya jyātalanirghoṣaṃ śrutvāśanisamasvanam. vimuñcantaḥ śakṛnmūtraṃ gajāḥ prādudruvur bhṛśam. bhīmasenasya tat karma rājann ekasya dhīmataḥ. nighnataḥ sarvabhūtāni rudrasyeva ca nirbabhau. saṃjaya uvāca. tataḥ śvetāśvasaṃyukte nārāyaṇasamāhite. tiṣṭhan rathavare śrīmān arjunaḥ samapadyata. tad balaṃ nṛpatiśreṣṭha tāvakaṃ vijayo raṇe. vyakṣobhayad udīrṇāśvaṃ mahodadhim ivānalaḥ. duryodhanas tava sutaḥ pramatte śvetavāhane. abhyetya sahasā kruddhaḥ sainyārdhenābhisaṃvṛtaḥ. paryavārayad āyāntaṃ yudhiṣṭhiram amarṣaṇam. kṣuraprāṇāṃ trisaptatyā tato 'vidhyata pāṇḍavam. akrudhyata bhṛśaṃ tatra kuntīputro yudhiṣṭhiraḥ. sa bhallāṃs triṃśatas tūrṇaṃ tava putre nyaveśayat. tato 'dhāvanta kauravyā jighṛkṣanto yudhiṣṭhiram. duṣṭabhāvān parāñ jñātvā samavetā mahārathāḥ. ājagmus taṃ parīpsaṃtaḥ kuntīputraṃ yudhiṣṭhiram. nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ. akṣauhiṇyā parivṛtās te 'bhyadhāvan yudhiṣṭhiram. bhīmasenaś ca samare mṛdnaṃs tava mahārathān. abhyadhāvad abhiprepsū rājānaṃ śatrubhir vṛtam. tāṃs tu sarvān maheṣvāsān karṇo vaikartano nṛpa. śaravarṣeṇa mahatā pratyavārayad āgatān. śaraughān visṛjantas te prerayantaś ca tomarān. na śekur yatnavanto 'pi rādheyaṃ prativīkṣitum. tāṃś ca sarvān maheṣvāsān sarvaśastrāstrapāragaḥ. mahatā śaravarṣeṇa rādheyaḥ pratyavārayat. duryodhanaṃ tu viṃśatyā śīghram astram udīrayan. avidhyat tūrṇam abhyetya sahadevo mahāmanāḥ. sa viddhaḥ sahadevena rarājācalasaṃnibhaḥ. prabhinna iva mātaṅgo rudhireṇa pariplutaḥ. dṛṣṭvā tava sutaṃ tatra gāḍhaviddhaṃ sutejanaiḥ. abhyadhāvad dṛḍhaṃ kruddho rādheyo rathināṃ varaḥ. duryodhanaṃ tathā dṛṣṭvā śīghram astram udīrya saḥ. tena yaudhiṣṭhiraṃ sainyam avadhīt pārṣataṃ tathā. tato yaudhiṣṭhiraṃ sainyaṃ vadhyamānaṃ mahātmanā. sahasā prādravad rājan sūtaputraśarārditam. vividhā viśikhās tatra saṃpatantaḥ parasparam. phalaiḥ puṅkhān samājaghnuḥ sūtaputradhanuścyutāḥ. antarikṣe śaraughāṇāṃ patatāṃ ca parasparam. saṃgharṣeṇa mahārāja pāvakaḥ samajāyata. tato daśa diśaḥ karṇaḥ śalabhair iva yāyibhiḥ. abhyaghnaṃs tarasā rājañ śaraiḥ paraśarīragaiḥ. raktacandanasaṃdigdhau maṇihemavibhūṣitau. bāhū vyatyakṣipat karṇaḥ paramāstraṃ vidarśayan. tataḥ sarvā diśo rājan sāyakair vipramohayan. apīḍayad bhṛśaṃ karṇo dharmarājaṃ yudhiṣṭhiram. tataḥ kruddho mahārāja dharmaputro yudhiṣṭhiraḥ. niśitair iṣubhiḥ karṇaṃ pañcāśadbhiḥ samārpayat. bāṇāndhakāram abhavat tad yuddhaṃ ghoradarśanam. hāhākāro mahān āsīt tāvakānāṃ viśāṃ pate. vadhyamāne tadā sainye dharmaputreṇa māriṣa. sāyakair vividhais tīkṣṇaiḥ kaṅkapatraiḥ śilāśitaiḥ. bhallair anekair vividhaiḥ śaktyṛṣṭimusalair api. yatra yatra sa dharmātmā duṣṭāṃ dṛṣṭiṃ vyasarjayat. tatra tatra vyaśīryanta tāvakā bharatarṣabha. karṇo 'pi bhṛśasaṃkruddho dharmarājaṃ yudhiṣṭhiram. nārācair ardhacandraiś ca vatsadantaiś ca saṃyuge. amarṣī krodhanaś caiva roṣaprasphuritānanaḥ. sāyakair aprameyātmā yudhiṣṭhiram abhidravat. yudhiṣṭhiraś cāpi śataṃ svarṇapuṅkhaiḥ śitaiḥ śaraiḥ. prahasann iva taṃ karṇaḥ kaṅkapatraiḥ śilāśitaiḥ. urasy avidhyad rājānaṃ tribhir bhallaiś ca pāṇḍavam. sa pīḍito bhṛśaṃ tena dharmarājo yudhiṣṭhiraḥ. upaviśya rathopasthe sūtaṃ yāhīty acodayat. prākrośanta tataḥ sarve dhārtarāṣṭrāḥ sarājakāḥ. gṛhīdhvam iti rājānam abhyadhāvanta sarvaśaḥ. tataḥ śatāḥ saptadaśa kekayānāṃ prahāriṇām. pāñcālaiḥ sahitā rājan dhārtarāṣṭrān nyavārayan. tasmin sutumule yuddhe vartamāne janakṣaye. duryodhanaś ca bhīmaś ca sameyātāṃ mahābalau. karṇo 'tha śarajālena kekayānāṃ mahārathān. vyadhamat parameṣvāsān agrataḥ paryavasthitān. teṣāṃ prayatamānānāṃ rādheyasya nivāraṇe. rathān pañcaśatān karṇaḥ prāhiṇod yamasādanam. aviṣahyaṃ tato dṛṣṭvā rādheyaṃ yudhi yodhinaḥ. bhīmasenam upāgacchan karṇabāṇaprapīḍitāḥ. rathānīkaṃ vidāryaiva śarajālair anekadhā. karṇa ekarathenaiva yudhiṣṭhiram upādravat. senāniveśam ārchantaṃ mārgaṇaiḥ kṣatavikṣatam. yamayor madhyagaṃ vīraṃ śanair yāntaṃ vicetasam. samāsādya tu rājānaṃ duryodhanahitepsayā. sūtaputras tribhis tīkṣṇair vivyādha parameṣubhiḥ. tathaiva rājā rādheyaṃ pratyavidhyat stanāntare. śarais tribhiś ca yantāraṃ caturbhiś caturo hayān. cakrarakṣau tu pārthasya mādrīputrau paraṃtapau. tāv apy adhāvatāṃ karṇaṃ rājānaṃ mā vadhīr iti. tau pṛthak śaravarṣābhyāṃ rādheyam abhyavarṣatām. nakulaḥ sahadevaś ca paramaṃ yatnam āsthitau. tathaiva tau pratyavidhyat sūtaputraḥ pratāpavān. bhallābhyāṃ śitadhārābhyāṃ mahātmānāv ariṃdamau. dantavarṇāṃs tu rādheyo nijaghāna manojavān. yudhiṣṭhirasya saṃgrāme kālavālān hayottamān. tato 'pareṇa bhallena śirastrāṇam apātayat. kaunteyasya maheṣvāsaḥ prahasann iva sūtajaḥ. tathaiva nakulasyāpi hayān hatvā pratāpavān. īṣāṃ dhanuś ca ciccheda mādrīputrasya dhīmataḥ. tau hatāśvau hatarathau pāṇḍavau bhṛśavikṣatau. bhrātarāv āruruhatuḥ sahadevarathaṃ tadā. tau dṛṣṭvā mātulas tatra virathau paravīrahā. abhyabhāṣata rādheyaṃ madrarājo 'nukampayā. yoddhavyam adya pārthena phalgunena tvayā saha. kimarthaṃ dharmarājena yudhayse bhṛśaroṣitaḥ. kṣīṇaśastrāstrakavacaḥ kṣīṇabāṇo vibāṇadhiḥ. śrāntasārathivāhaś ca channo 'strair aribhis tathā. pārtham āsādya rādheya upahāsyo bhaviṣyasi. evam ukto 'pi karṇas tu madrarājena saṃyuge. tathaiva karṇaḥ saṃrabdho yudhiṣṭhiram atāḍayat. śarais tīkṣṇaiḥ parāvidhya mādrīputrau ca pāṇḍavau. prahasya samare karṇaś cakāra vimukhaṃ śaraiḥ. tataḥ śalyaḥ prahasyedaṃ karṇaṃ punar uvāca ha. rathastham atisaṃrabdhaṃ yudhiṣṭhiravadhe dhṛtam. yadarthaṃ dhārtarāṣṭreṇa satataṃ mānito bhavān. taṃ pārthaṃ jahi rādheya kiṃ te hatvā yudhiṣṭhiram. śaṅkhayor dhmāyatoḥ śabdaḥ sumahān eṣa kṛṣṇayoḥ. śrūyate cāpaghoṣo 'yaṃ prāvṛṣīvāmbudasya ha. asau nighnan rathodārān arjunaḥ śaravṛṣṭibhiḥ. sarvāṃ grasati naḥ senāṃ karṇa paśyainam āhave. pṛṣṭharakṣau ca śūrasya yudhāmanyūttamaujasau. uttaraṃ cāsya vai śūraś cakraṃ rakṣati sātyakiḥ. dhṛṣṭadyumnas tathā cāsya cakraṃ rakṣati dakṣiṇam. bhīmasenaś ca vai rājñā dhārtarāṣṭreṇa yudhyate. yathā na hanyāt taṃ bhīmaḥ sarveṣāṃ no 'dya paśyatām. tathā rādheya kriyatāṃ rājā mucyeta no yathā. paśyainaṃ bhīmasenena grastam āhavaśobhinam. yadi tv āsādya mucyeta vismayaḥ sumahān bhavet. paritrāhy enam abhyetya saṃśayaṃ paramaṃ gatam. kiṃ nu mādrīsutau hatvā rājānaṃ ca yudhiṣṭhiram. iti śalyavacaḥ śrutvā rādheyaḥ pṛthivīpate. dṛṣṭvā duryodhanaṃ caiva bhīmagrastaṃ mahāhave. rājagṛddhī bhṛśaṃ caiva śalyavākyapracoditaḥ. ajātaśatrum utsṛjya mādrīputrau ca pāṇḍavau. tava putraṃ paritrātum abhyadhāvata vīryavān. madrarājapraṇuditair aśvair ākāśagair iva. gate karṇe tu kaunteyaḥ pāṇḍuputro yudhiṣṭhiraḥ. apāyāj javanair aśvaiḥ sahadevasya māriṣa. tābhyāṃ sa sahitas tūrṇaṃ vrīḍann iva nareśvaraḥ. prāpya senāniveśaṃ ca mārgaṇaiḥ kṣatavikṣataḥ. avatīrṇo rathāt tūrṇam āviśac chayanaṃ śubham. apanītaśalyaḥ subhṛśaṃ hṛcchalyābhinipīḍitaḥ. so 'bravīd bhrātarau rājā mādrīputrau mahārathau. anīkaṃ bhīmasenasya pāṇḍavāv āśu gacchatām. jīmūta iva nardaṃs tu yudhyate sa vṛkodaraḥ. tato 'nyaṃ ratham āsthāya nakulo rathapuṃgavaḥ. sahadevaś ca tejasvī bhrātarau śatrukarśanau. turagair agryaraṃhobhir yātvā bhīmasya śuṣmiṇau. anīkaṃ sahitau tatra bhrātarau paryavasthitau.