दुःशासनश् च निहतः पाण्डवेन यशस्विना। पीतं च रुधिरं कोपाद् भीमसेनेन संयुगे। एतच् छ्रुत्वा महाराज धृतराष्ट्रो ऽम्बिकासुतः। दह्यमानो ऽब्रवीत् सूतं मुहूर्तं तिष्ठ संजय। व्याकुलं मे मनस् तात मा तावत् किं चिद् उच्यताम्। राजापि नाब्रवीत् किं चित् संजयो विदुरस् तथा। तूष्णीं भूतस् तथा सो ऽथ बभूव जगतीपतिः।
duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā. pītaṃ ca rudhiraṃ kopād bhīmasenena saṃyuge. etac chrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ. dahyamāno 'bravīt sūtaṃ muhūrtaṃ tiṣṭha saṃjaya. vyākulaṃ me manas tāta mā tāvat kiṃ cid ucyatām. rājāpi nābravīt kiṃ cit saṃjayo viduras tathā. tūṣṇīṃ bhūtas tathā so 'tha babhūva jagatīpatiḥ.