चन्द्रनक्षत्रभासैश् च वदनैश् चारुकुण्डलैः। कॢप्तश्मश्रुभिर् अत्यर्थं वीराणां समलंकृतैः। वदनैः पश्य संछन्नां महीं शोणितकर्दमाम्। कुमुदोत्पलपत्राणां षण्डैः फुल्लैर् यथा सरः। तथा महीभृतां वक्त्रैः कुमुदोत्पलसंनिभैः। तारागणविचित्रस्य निर्मलेन्दुद्युतित्विषः। पश्य गां नभसस् तुल्यां ग्रहनक्षत्रमालिनः।
candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ. kḷptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ. vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām. kumudotpalapatrāṇāṃ ṣaṇḍaiḥ phullair yathā saraḥ. tathā mahībhṛtāṃ vaktraiḥ kumudotpalasaṃnibhaiḥ. tārāgaṇavicitrasya nirmalendudyutitviṣaḥ. paśya gāṃ nabhasas tulyāṃ grahanakṣatramālinaḥ.