संजय उवाच। निर्जित्य कृतवर्माणं भारद्वाजं च संयुगे। ततः स सात्यकिर् धीमान् महात्मा वृष्णिपुंगवः। दुर्योधनं च निर्जित्य शूरं चैव सुदर्शनम्। जलसंधं निहत्याजौ शूरसेनं च पार्थिवम्। म्लेच्छांश् च बहुधा राजन् काश्यपुत्रं च संयुगे। निषादांस् तंकणांश् चैव कलिंगान् मगधान् अपि। केकयाञ् शूरसेनांश् च तथा पर्वतवासिनः। काम्बोजान् यवनांश् चैव वसातींश् च शिबीन् अपि। कोसलान् मगधांश् चैव यातुधानान् सतित्तिरान्। एतांश् चान्यान् रणे हत्वागच्छद् युद्धे स सात्यकिः। रुधिरौघनदीं घोरां केशशैवलशाड्वलाम्। शक्तिग्राहसमाकीर्णां छत्त्रहंसोपशोभिताम्। दुस्तरां भीरुभिर् नित्यं शूरलोकप्रवाहिनीम्। सुदर्शनं निहत्याजौ यन्तारम् इदम् अब्रवीत्।
saṃjaya uvāca. nirjitya kṛtavarmāṇaṃ bhāradvājaṃ ca saṃyuge. tataḥ sa sātyakir dhīmān mahātmā vṛṣṇipuṃgavaḥ. duryodhanaṃ ca nirjitya śūraṃ caiva sudarśanam. jalasaṃdhaṃ nihatyājau śūrasenaṃ ca pārthivam. mlecchāṃś ca bahudhā rājan kāśyaputraṃ ca saṃyuge. niṣādāṃs taṃkaṇāṃś caiva kaliṃgān magadhān api. kekayāñ śūrasenāṃś ca tathā parvatavāsinaḥ. kāmbojān yavanāṃś caiva vasātīṃś ca śibīn api. kosalān magadhāṃś caiva yātudhānān satittirān. etāṃś cānyān raṇe hatvāgacchad yuddhe sa sātyakiḥ. rudhiraughanadīṃ ghorāṃ keśaśaivalaśāḍvalām. śaktigrāhasamākīrṇāṃ chattrahaṃsopaśobhitām. dustarāṃ bhīrubhir nityaṃ śūralokapravāhinīm. sudarśanaṃ nihatyājau yantāram idam abravīt.