ते निवृत्ताश् च भग्नाश् च दृष्ट्वा तल् लाघवं मम। प्रणिपेतुश् च सर्वे वै प्रशशंसुश् च पार्थिवाः। तत आदाय ताः कन्या नृपतींश् च विसृज्य तान्। अथाहं हास्तिनपुरम् आयां जित्वा महीक्षितः।
te nivṛttāś ca bhagnāś ca dṛṣṭvā tal lāghavaṃ mama. praṇipetuś ca sarve vai praśaśaṃsuś ca pārthivāḥ. tata ādāya tāḥ kanyā nṛpatīṃś ca visṛjya tān. athāhaṃ hāstinapuram āyāṃ jitvā mahīkṣitaḥ.