ब्राह्मणाः कथयिष्यन्ति महाभारतम् आहवम्। समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम्। तेषाम् आयुश् च पुत्राश् च धनं चैव भविष्यति। शृण्वतां चापि मर्त्यानां स्वर्गस्थानं भविष्यति।
brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam. samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam. teṣām āyuś ca putrāś ca dhanaṃ caiva bhaviṣyati. śṛṇvatāṃ cāpi martyānāṃ svargasthānaṃ bhaviṣyati.