यथा भूम्यां भूमिपतिर् उर्वश्यां च पुरूरवाः। ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः। शकुन्तलायां दुःषन्तो धृत्यां धर्मश् च शाश्वतः। दमयन्त्यां नलश् चैव सत्यवत्यां च नारदः। जरत्कारुर् जरत्कार्वां पुलस्त्यश् च प्रतीच्यया। मेनकायां यथोर्णायुस् तुम्बुरुश् चैव रम्भया। वासुकिः शतशीर्षायां कुमार्यां च धनंजयः। वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः। पुलस्त्यश् च भरद्वाज्यां वृत्त्यां धर्मश् च शाश्वतः।
yathā bhūmyāṃ bhūmipatir urvaśyāṃ ca purūravāḥ. ṛcīkaḥ satyavatyāṃ ca sarasvatyāṃ yathā manuḥ. śakuntalāyāṃ duḥṣanto dhṛtyāṃ dharmaś ca śāśvataḥ. damayantyāṃ nalaś caiva satyavatyāṃ ca nāradaḥ. jaratkārur jaratkārvāṃ pulastyaś ca pratīcyayā. menakāyāṃ yathorṇāyus tumburuś caiva rambhayā. vāsukiḥ śataśīrṣāyāṃ kumāryāṃ ca dhanaṃjayaḥ. vaidehyāṃ ca yathā rāmo rukmiṇyāṃ ca janārdanaḥ. pulastyaś ca bharadvājyāṃ vṛttyāṃ dharmaś ca śāśvataḥ.