ततो द्रौणिर् महावीर्यः पार्थस्य विचरिष्यतः। विवरं सूक्ष्मम् आलोक्य ज्यां चिच्छेद क्षुरेण ह। तद् अस्यापूजयन् देवाः कर्म दृष्ट्वातिमानुषम्। न शक्तो ऽन्यः पुमान् स्थातुम् ऋते पार्थं धनंजयम्। द्रोणो भीष्मश् च कर्णश् च कृपश् चैव महारथः। साधु साध्व् इति भाषन्तो पूजयन् कर्म तस्य तत्।
tato drauṇir mahāvīryaḥ pārthasya vicariṣyataḥ. vivaraṃ sūkṣmam ālokya jyāṃ ciccheda kṣureṇa ha. tad asyāpūjayan devāḥ karma dṛṣṭvātimānuṣam. na śakto 'nyaḥ pumān sthātum ṛte pārthaṃ dhanaṃjayam. droṇo bhīṣmaś ca karṇaś ca kṛpaś caiva mahārathaḥ. sādhu sādhv iti bhāṣanto pūjayan karma tasya tat.