शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम्। श्रूयतां तलयोः शब्दो भेर्योर् आहतयोर् इव। एकैकं चतुरः पञ्च क्व चित् षष्टिं क्व चिच् छतम्। मया पश्यत मत्स्यानाम् इषुभिर् निहतान् रथान्। एकं द्वौ चतुरः पञ्च क्व चित् षष्टिं क्व चिच् छतम्। हतान् पश्यत मातङ्गान् कीर्णान् एकेषुणा मया। मद्बाहुमुक्तैर् इषुभिस् तैलधौतैः पतत्रिभिः। खद्योतैर् इव संवृत्तम् अन्तरिक्षं व्यराजताम्।
śarāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham. śrūyatāṃ talayoḥ śabdo bheryor āhatayor iva. ekaikaṃ caturaḥ pañca kva cit ṣaṣṭiṃ kva cic chatam. mayā paśyata matsyānām iṣubhir nihatān rathān. ekaṃ dvau caturaḥ pañca kva cit ṣaṣṭiṃ kva cic chatam. hatān paśyata mātaṅgān kīrṇān ekeṣuṇā mayā. madbāhumuktair iṣubhis tailadhautaiḥ patatribhiḥ. khadyotair iva saṃvṛttam antarikṣaṃ vyarājatām.