सर्वे च देवा मुदिताः प्रहृष्टा; महर्षयश् चेन्द्रम् अभिष्टुवन्तः। वृत्रं हतं संददृशुः पृथिव्यां। वज्राहतं शैलम् इवावकीर्णम्। सर्वांश् च दैत्यांस् त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान्।
sarve ca devā muditāḥ prahṛṣṭā; maharṣayaś cendram abhiṣṭuvantaḥ. vṛtraṃ hataṃ saṃdadṛśuḥ pṛthivyāṃ. vajrāhataṃ śailam ivāvakīrṇam. sarvāṃś ca daityāṃs tvaritāḥ sametya; jaghnuḥ surā vṛtravadhābhitaptān.