युधिष्ठिर उवाच। बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश् च ये। क्षुत्तृष्णाध्वश्रमायासशीतार्तिम् असहिष्णवः। ते सर्वे विनिवर्तन्तां ये च मिष्टभुजो द्विजाः। पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः। ते ऽपि सर्वे निवर्तन्तां ये च सूदानुयायिनः। मया यथोचिता जीव्यैः संविभक्ताश् च वृत्तिभिः। ये चाप्य् अनुगताः पौरा राजभक्तिपुरस्कृताः।
yudhiṣṭhira uvāca. bikṣābhujo nivartantāṃ brāhmaṇā yatayaś ca ye. kṣuttṛṣṇādhvaśramāyāsaśītārtim asahiṣṇavaḥ. te sarve vinivartantāṃ ye ca miṣṭabhujo dvijāḥ. pakvānnalehyapānānāṃ māṃsānāṃ ca vikalpakāḥ. te 'pi sarve nivartantāṃ ye ca sūdānuyāyinaḥ. mayā yathocitā jīvyaiḥ saṃvibhaktāś ca vṛttibhiḥ. ye cāpy anugatāḥ paurā rājabhaktipuraskṛtāḥ.