तं भीमः प्रतिजग्राह पूजया परया ततः। स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः। स तत्र कुण्डिने रम्ये वसमानो महीपतिः। न च किं चित् ततो ऽपश्यत् प्रेक्ष्यमाणो मुहुर् मुहुः। स तु राज्ञा समागम्य विदर्भपतिना तदा। अकस्मात् सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति।
taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ. sa tena pūjito rājñā ṛtuparṇo narādhipaḥ. sa tatra kuṇḍine ramye vasamāno mahīpatiḥ. na ca kiṃ cit tato 'paśyat prekṣyamāṇo muhur muhuḥ. sa tu rājñā samāgamya vidarbhapatinā tadā. akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati.