वृक्षे ऽस्मिन् यानि पर्णानि फलान्य् अपि च बाहुक। संख्यातानि मयैतानि सर्वाण्य् अस्य वनस्पतेः। पतितानि च यान्य् अत्र तत्रैकम् अधिकं शतम्। एकपत्राधिकं पत्रं फलम् एकं च बाहुक। अयुतं चैव पत्राणाम् अनयोर् अपि शाखयोः। लक्ष्यं ह्य् अशीतिसाहस्रं पत्रेषु च फलेषु च।
vṛkṣe 'smin yāni parṇāni phalāny api ca bāhuka. saṃkhyātāni mayaitāni sarvāṇy asya vanaspateḥ. patitāni ca yāny atra tatraikam adhikaṃ śatam. ekapatrādhikaṃ patraṃ phalam ekaṃ ca bāhuka. ayutaṃ caiva patrāṇām anayor api śākhayoḥ. lakṣyaṃ hy aśītisāhasraṃ patreṣu ca phaleṣu ca.