कुशली ते पिता राज्ञि जनित्री भ्रातरश् च ते। आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते। किं तु राजा दृढं भीमो जनित्री भ्रातरश् च ते। त्वत्कृते बन्धुवर्गाश् च गतसत्त्वा इवासते। अन्वेष्टारो ब्राह्मणाश् च भ्रमन्ति शतशो महीम्।
kuśalī te pitā rājñi janitrī bhrātaraś ca te. āyuṣmantau kuśalinau tatrasthau dārakau ca te. kiṃ tu rājā dṛḍhaṃ bhīmo janitrī bhrātaraś ca te. tvatkṛte bandhuvargāś ca gatasattvā ivāsate. anveṣṭāro brāhmaṇāś ca bhramanti śataśo mahīm.