यानि शिल्पानि लोके ऽस्मिन् यच् चाप्य् अन्यत् सुदुष्करम्। सर्वं यतिष्ये तत् कर्तुम् ऋतुपर्ण भरस्व माम्। इत्य् उक्तः स नलेनाथ ऋतुपर्णो नराधिपः। उवाच सुप्रीतमनास् तं प्रेक्ष्य च महीपते।
yāni śilpāni loke 'smin yac cāpy anyat suduṣkaram. sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām. ity uktaḥ sa nalenātha ṛtuparṇo narādhipaḥ. uvāca suprītamanās taṃ prekṣya ca mahīpate.