अथार्धरात्रसमये निःशब्दस्तिमिते तदा। सुप्ते सार्थे परिश्रान्ते हस्तियूथम् उपागमत्। पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम्। अथापश्यत सार्थं तं सार्थजान् सुबहून् गजान्। ते तान् ग्राम्यगजान् दृष्ट्वा सर्वे वनगजास् तदा। समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः। तेषाम् आपततां वेगः करिणां दुःसहो ऽभवत्। नगाग्राद् इव शीर्णानां शृङ्गाणां पततां क्षितौ। स्पन्दताम् अपि नागानां मार्गा नष्टा वनोद्भवैः।
athārdharātrasamaye niḥśabdastimite tadā. supte sārthe pariśrānte hastiyūtham upāgamat. pānīyārthaṃ girinadīṃ madaprasravaṇāvilām. athāpaśyata sārthaṃ taṃ sārthajān subahūn gajān. te tān grāmyagajān dṛṣṭvā sarve vanagajās tadā. samādravanta vegena jighāṃsanto madotkaṭāḥ. teṣām āpatatāṃ vegaḥ kariṇāṃ duḥsaho 'bhavat. nagāgrād iva śīrṇānāṃ śṛṅgāṇāṃ patatāṃ kṣitau. spandatām api nāgānāṃ mārgā naṣṭā vanodbhavaiḥ.