सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम्। नलं च हृतसर्वस्वम् उपलभ्येदम् अब्रवीत्। बृहत्सेनाम् अतियशां तां धात्रीं परिचारिकाम्। हितां सर्वार्थकुशलाम् अनुरक्तां सुभाषिताम्।
sā śaṅkamānā tatpāpaṃ cikīrṣantī ca tatpriyam. nalaṃ ca hṛtasarvasvam upalabhyedam abravīt. bṛhatsenām atiyaśāṃ tāṃ dhātrīṃ paricārikām. hitāṃ sarvārthakuśalām anuraktāṃ subhāṣitām.