सखायं प्रददौ चास्य चित्रसेनं पुरंदरः। स तेन सह संगम्य रेमे पार्थो निरामयः। गीतवादित्रनृत्यानि भूय एवादिदेश ह। तथापि नालभच् छर्म तरस्वी द्यूतकारितम्। दुःशासनवधामर्षी शकुनेः सौबलस्य च। ततस् तेनातुलां प्रीतिम् उपगम्य क्व चित् क्व चित्। गान्धर्वम् अतुलं नृत्यं वादित्रं चोपलब्धवान्। स शिक्षितो नृत्यगुणान् अनेकान्। वादित्रगीतार्थगुणांश् च सर्वान्। न शर्म लेभे परवीरहन्ता। भ्रातॄन् स्मरन् मातरं चैव कुन्तीम्। तद् इन्द्रस् तस्य विज्ञाय चिकीर्षितम् अनुत्तमम्। वैशंपायन उवाच। आदाव् एवाथ तं शक्रश् चित्रसेनं रहो ऽब्रवीत्। पार्थस्य चक्षुर् उर्वश्यां सक्तं विज्ञाय वासव। गन्धर्वराज गच्छाद्य प्रहितो ऽप्सरसां वराम्। उर्वशीं पुरुषव्याघ्र सोपातिष्ठतु फाल्गुनम्। यथार्चितो गृहीतास्त्रो विद्यया मन् नियोगतः। तथा त्वया विधातव्यं स्त्रीषु सङ्गविशारदः। एवम् उक्तस् तथेत्य् उक्त्वा सो ऽनुज्ञां प्राप्य वासवात्। गन्धर्वराजो ऽप्सरसम् अभ्यगाद् उर्वशीं वराम्। तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस् तया। सुखासीनः सुखासीनां स्मितपूर्वं वचो ऽब्रवीत्। विदितं ते ऽस्तु सुश्रोणि प्रहितो ऽहम् इहागतः। त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना। यस् तु देवमनुष्येषु प्रख्यातः सहजैर् गुणैः। श्रिया शीलेन रूपेण व्रतेन च दमेन च। प्रख्यातो बलवीर्येण संमतः प्रतिभानवान्। वर्चस्वी तेजसा युक्तः क्षमावान् वीतमत्सरः। साङ्गोपनिषदान् वेदांश् चतुराख्यानपञ्चमान्। यो ऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम्। ब्रह्मचर्येण दाक्ष्येण प्रसवैर् वयसापि च। एको वै रक्षिता चैव त्रिदिवं मघवान् इव। अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः। सुहृदश् चान्नपानेन विविधेनाभिवर्षति। सत्यवाक् पूजितो वक्ता रूपवान् अनहंकृतः। भक्तानुकम्पी कान्तश् च प्रियश् च स्थिरसंगरः। प्रार्थनीयैर् गुणगणैर् महेन्द्रवरुणोपमः। विदितस् ते ऽर्जुनो वीरः स स्वर्गफलम् आप्नुयात्। तव शक्राभ्यनुज्ञातः पादाव् अद्य प्रपद्यताम्। तद् एवं कुरु कल्याणि प्रपन्नस् त्वां धनंजयः। एवम् उक्ता स्मितं कृत्वा संमानं बहुमन्य च। प्रत्युवाचोर्वशी प्रीता चित्रसेनम् अनिन्दिता। यस् त्व् अस्य कथितः सत्यो गुणोद्देशस् त्वया मम। तं श्रुत्वाव्यथयं पुंसो वृणुयां किम् अतो ऽर्जुनम्। महेन्द्रस्य नियोगेन त्वत्तः संप्रणयेन च। तस्य चाहं गुणौघेन फाल्गुने जातमन्मथा। वैशंपायन उवाच। गच्छ त्वं हि यथाकामम् आगमिष्याम्य् अहं सुखम्। ततो विसृज्य गन्धर्वं कृतकृत्यं शुचिस्मिता। उर्वशी चाकरोत् स्नानं पार्थप्रार्थनलालसा। स्नानालंकरणैर् हृद्यैर् गन्धमाल्यैश् च सुप्रभैः। धनंजयस्य रूपेण शरैर् मन्मथचोदितैः। अतिविद्धेन मनसा मन्मथेन प्रदीपिता। दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे। चित्तसंकल्पभावेन सुचित्तानन्यमानसा। मनोरथेन संप्राप्तं रमन्त्य् एनं हि फाल्गुनं। निर्गम्य चन्द्रोदयने विगाढे रजनीमुखे। प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं प्रति। मृदुकुञ्चितदीर्घेण कुमुदोत्करधारिणा। केशहस्तेन ललना जगामाथ विराजती। भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयापि च। शशिनं वक्त्रचन्द्रेण साह्वयन्तीव गच्छती। दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ। गच्छन्त्या हारविकचौ स्तनौ तस्या ववल्गतुः। स्तनोद्वहनसंक्षोभान् नाम्यमाना पदे पदे। त्रिवलीदामचित्रेण मध्येनातीव शोभिना। अधो भूधरविस्तीर्णं नितम्बोन्नतपीवरम्। मन्मथायतनं शुभ्रं रसनादामभूषितम्। ऋषीणाम् अपि दिव्यानां मनोव्याघातकारणम्। सूक्ष्मवस्त्रधरं रेजे जघनं निरवद्यवत्। गूढगुल्फधरौ पादौ ताम्रायततलाङ्गुली। कूर्मपृष्ठोन्नतौ चापि शोभेते किङ्किणीकिणौ। सीधुपानेन चाल्पेन तुष्ट्याथ मदनेन च। विलासनैश् च विविधैः प्रेक्षणीयतराभवत्। सिद्धचारणगन्धर्वैः सा प्रयाता विलासिनी। बह्वाश्चर्ये ऽपि वै स्वर्गे दर्शनीयतमाकृतिः। सुसूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता। तनुर् अभ्रावृता व्योम्नि चन्द्रलेखेव गच्छती। ततः प्राप्ता क्षणेनैव मनःपवनगामिनी। भवनं पाण्डुपुत्रस्य फाल्गुनस्य शुचिस्मिता। तत्र द्वारम् अनुप्राप्ता द्वारस्थैश् च निवेदिता। अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना। उपातिष्ठत तद् वेश्म निर्मलं सुमनोहरम्। स शङ्कितमना राजन् प्रत्युद्गच्छत तां निशि। दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृतलोचनः। अर्जुन उवाच। तदाभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान्। अभिवादये त्वां शिरसा प्रवराप्सरसां वरे। किम् आज्ञापयसे देवि प्रेष्यस् ते ऽहम् उपस्थितः। वैशंपायन उवाच। फाल्गुनस्य वचः श्रुत्वा गतसंज्ञा तदोर्वशी। उर्वश्य् उवाच। गन्धर्ववचनं सर्वं श्रावयाम् आस तं तदा। यथा मे चित्रसेनेन कथितं मनुजोत्तम। तत् ते ऽहं संप्रवक्ष्यामि यथा चाहम् इहागता। उपस्थाने महेन्द्रस्य वर्तमाने मनोरमे। तवागमनतो वृत्ते स्वर्गस्य परमोत्सवे। रुद्राणां चैव सांनिध्यम् आदित्यानां च सर्वशः। समागमे ऽश्विनोश् चैव वसूनां च नरोत्तम। महर्षीणां च संघेषु राजर्षिप्रवरेषु च। सिद्धचारणयक्षेषु महोरगगणेषु च। उपविष्टेषु सर्वेषु स्थानमानप्रभावतः। ऋद्ध्या प्रज्वलमानेषु अग्निसोमार्कवर्ष्मसु। वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन। दिव्ये मनोरमे गेये प्रवृत्ते पृथुलोचन। सर्वाप्सरःसु मुख्यासु प्रनृत्तासु कुरूद्वह। त्वं किलानिमिषः पार्थ माम् एकां तत्र दृष्टवान्। तत्र चावभृथे तस्मिन्न् उपस्थाने दिवौकसाम्। तव पित्राभ्यनुज्ञाता गताः स्वं स्वं गृहं सुराः। तथैवाप्सरसः सर्वा विसृष्टाः स्वगृहं गताः। अपि चान्याश् च शत्रुघ्न तव पित्रा विसर्जिताः। ततः शक्रेण संदिष्टश् चित्रसेनो ममान्तिकम्। प्राप्तः कमलपत्राक्ष स च माम् अब्रवीद् अथ। त्वत्कृते ऽहं सुरेशेन प्रेषितो वरवर्णिनि। प्रियं कुरु महेन्द्रस्य मम चैवात्मनश् च ह। शक्रतुल्यं रणे शूरं रूपौदार्यगुणान्वितम्। पार्थं प्रार्थय सुश्रोणि त्वम् इत्य् एवं तदाब्रवीत्। ततो ऽहं समनुज्ञाता तेन पित्रा च ते ऽनघ। तवान्तिकम् अनुप्राप्ता शुश्रूषितुम् अरिंदम। त्वद्गुणाकृष्टचित्ताहम् अनङ्गवशम् आगता। वैशंपायन उवाच। चिराभिलषितो वीर ममाप्य् एष मनोरथः। तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जावृतो ऽर्जुनः। उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशालये। दुःश्रुतं मे ऽस्तु सुभगे यन् मां वदसि भाविनि। गुरुदारैः समाना मे निश्चयेन वरानने। यथा कुन्ती महाभागा यथेन्द्राणी शची मम। तथा त्वम् अपि कल्याणी नात्र कार्या विचारणा। यच् चेक्षितासि विस्पष्टं विशेषेण मया शुभे। तच् च कारणपूर्वं हि शृणु सत्यं शुचिस्मिते। इयं पौरववंशस्य जननी मुदितेति ह। त्वाम् अहं दृष्टवांस् तत्र विज्ञायोत्फुल्ललोचनः। न माम् अर्हसि कल्याणि अन्यथा ध्यातुम् अप्सरः। गुरोर् गुरुतरी मे त्वं मम वंशविवर्धिनी। उर्वश्य् उवाच। अनावृताश् च सर्वाः स्म देवराजाभिनन्दन। गुरुस्थाने न मां वीर नियोक्तुं त्वम् इहार्हसि। पूरोर् वंशे हि ये पुत्रा नप्तारो वा त्व् इहागताः। तपसा रमयन्त्य् अस्मान् न च तेषां व्यतिक्रमः। तत् प्रसीद न माम् आर्तां विसर्जयितुम् अर्हसि। हृच्छयेन च संतप्तां भक्तां च भज मानद। अर्जुन उवाच। श्रुणु सत्यं वरारोहे यत् त्वां वक्ष्याम्य् अनिन्दिते। शृण्वन्तु मे दिशश् चैव विदिशश् च सदेवताः। यथा कुन्ती च माद्री च शची चैव ममानघे। तथा स्ववंशजननी त्वं हि मे ऽद्य गरीयसी। गच्छ मूर्ध्ना प्रपन्नो ऽस्मि पादौ ते वरवर्णिनि। वैशंपायन उवाच। त्वं हि मे मातृवत् पूज्या रक्ष्यो ऽहं पुत्रवत् त्वया। एवम् उक्ता तु पार्थेन उर्वशी क्रोधमूर्छिता। वेपन्ती भ्रुकुटीवक्रा शशापाथ धनंजयम्। उर्वश्य् उवाच। तव पित्राभ्यनुज्ञातां स्वयं च गृहम् आगताम्। यस्मान् मां नाभिनन्देथाः कामबाणवशं गताम्। तस्मात् त्वं नर्तनः पार्थ स्त्रीमध्ये मानवर्जितः। वैशंपायन उवाच। अपुमान् इति विख्यातः षण्ढवद् विचरिष्यसि। एवं दत्त्वार्जुने शापं स्फुरदोष्ठी श्वसन्त्य् अथ। पुनः प्रत्यागता क्षिप्रम् उर्वशी गृहम् आत्मनः। ततो ऽर्जुनस् त्वरमाणश् चित्रसेनम् अरिंदमः। संप्राप्य रजनीवृत्तं तद् उर्वश्या यथा तथा। निवेदयाम् आस तदा चित्रसेनाय पाण्डवः। तत्र चैवं यथावृत्तं शापं चैव पुनः पुनः। न्यवेदयच् च शक्रस्य चित्रसेनो ऽपि सर्वशः। तत आनाय्य तनयं विविक्ते हरिवाहनः। सान्त्वयित्वा शुभैर् वाक्यैः स्मयमानो ऽभ्यभाषत। सुपुत्राद्य पृथा तात त्वया पुत्रेण सत्तम। ऋषयो ऽपि हि धैर्येण जिता वै ते महाभुज। यत् तु दत्तवती शापम् उर्वशी तव मानद। स चापि ते ऽर्थकृत् तात साधकश् च भविष्यति। अज्ञातवासो वस्तव्यो युष्माभिर् भूतले ऽनघ। वर्षे त्रयोदशे वीर तत्र त्वं क्षपयिष्यसि। तेन नर्तनवेषेण अपुंस्त्वेन तथैव च। वर्षम् एकं विहृत्यैव ततः पुंस्त्वम् अवाप्स्यसि। एवम् उक्तस् तु शक्रेण फाल्गुनः परवीरहा। मुदं परमिकां लेभे न च शापं व्यचिन्तयत्। चित्रसेनेन सहितो गन्धर्वेण यशस्विना। रेमे स स्वर्गभवने पाण्डुपुत्रो धनंजयः। य इदं श्रुणुयान् नित्यं वृत्तं पाण्डुसुतस्य वै। न तस्य कामः कामेषु पापकेषु प्रवर्तते। इदम् अमरवरात्मजस्य घोरं। शुचि चरितं विनिशम्य फाल्गुनस्य। व्यपगतमददम्भरागदोषास्। त्रिदिवगताभिरमन्ति मानवेन्द्राः।
sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ. sa tena saha saṃgamya reme pārtho nirāmayaḥ. gītavāditranṛtyāni bhūya evādideśa ha. tathāpi nālabhac charma tarasvī dyūtakāritam. duḥśāsanavadhāmarṣī śakuneḥ saubalasya ca. tatas tenātulāṃ prītim upagamya kva cit kva cit. gāndharvam atulaṃ nṛtyaṃ vāditraṃ copalabdhavān. sa śikṣito nṛtyaguṇān anekān. vāditragītārthaguṇāṃś ca sarvān. na śarma lebhe paravīrahantā. bhrātṝn smaran mātaraṃ caiva kuntīm. tad indras tasya vijñāya cikīrṣitam anuttamam. vaiśaṃpāyana uvāca. ādāv evātha taṃ śakraś citrasenaṃ raho 'bravīt. pārthasya cakṣur urvaśyāṃ saktaṃ vijñāya vāsava. gandharvarāja gacchādya prahito 'psarasāṃ varām. urvaśīṃ puruṣavyāghra sopātiṣṭhatu phālgunam. yathārcito gṛhītāstro vidyayā man niyogataḥ. tathā tvayā vidhātavyaṃ strīṣu saṅgaviśāradaḥ. evam uktas tathety uktvā so 'nujñāṃ prāpya vāsavāt. gandharvarājo 'psarasam abhyagād urvaśīṃ varām. tāṃ dṛṣṭvā vidito hṛṣṭaḥ svāgatenārcitas tayā. sukhāsīnaḥ sukhāsīnāṃ smitapūrvaṃ vaco 'bravīt. viditaṃ te 'stu suśroṇi prahito 'ham ihāgataḥ. tridivasyaikarājena tvatprasādābhinandinā. yas tu devamanuṣyeṣu prakhyātaḥ sahajair guṇaiḥ. śriyā śīlena rūpeṇa vratena ca damena ca. prakhyāto balavīryeṇa saṃmataḥ pratibhānavān. varcasvī tejasā yuktaḥ kṣamāvān vītamatsaraḥ. sāṅgopaniṣadān vedāṃś caturākhyānapañcamān. yo 'dhīte guruśuśrūṣāṃ medhāṃ cāṣṭaguṇāśrayām. brahmacaryeṇa dākṣyeṇa prasavair vayasāpi ca. eko vai rakṣitā caiva tridivaṃ maghavān iva. akatthano mānayitā sthūlalakṣyaḥ priyaṃvadaḥ. suhṛdaś cānnapānena vividhenābhivarṣati. satyavāk pūjito vaktā rūpavān anahaṃkṛtaḥ. bhaktānukampī kāntaś ca priyaś ca sthirasaṃgaraḥ. prārthanīyair guṇagaṇair mahendravaruṇopamaḥ. viditas te 'rjuno vīraḥ sa svargaphalam āpnuyāt. tava śakrābhyanujñātaḥ pādāv adya prapadyatām. tad evaṃ kuru kalyāṇi prapannas tvāṃ dhanaṃjayaḥ. evam uktā smitaṃ kṛtvā saṃmānaṃ bahumanya ca. pratyuvācorvaśī prītā citrasenam aninditā. yas tv asya kathitaḥ satyo guṇoddeśas tvayā mama. taṃ śrutvāvyathayaṃ puṃso vṛṇuyāṃ kim ato 'rjunam. mahendrasya niyogena tvattaḥ saṃpraṇayena ca. tasya cāhaṃ guṇaughena phālgune jātamanmathā. vaiśaṃpāyana uvāca. gaccha tvaṃ hi yathākāmam āgamiṣyāmy ahaṃ sukham. tato visṛjya gandharvaṃ kṛtakṛtyaṃ śucismitā. urvaśī cākarot snānaṃ pārthaprārthanalālasā. snānālaṃkaraṇair hṛdyair gandhamālyaiś ca suprabhaiḥ. dhanaṃjayasya rūpeṇa śarair manmathacoditaiḥ. atividdhena manasā manmathena pradīpitā. divyāstaraṇasaṃstīrṇe vistīrṇe śayanottame. cittasaṃkalpabhāvena sucittānanyamānasā. manorathena saṃprāptaṃ ramanty enaṃ hi phālgunaṃ. nirgamya candrodayane vigāḍhe rajanīmukhe. prasthitā sā pṛthuśroṇī pārthasya bhavanaṃ prati. mṛdukuñcitadīrgheṇa kumudotkaradhāriṇā. keśahastena lalanā jagāmātha virājatī. bhrūkṣepālāpamādhuryaiḥ kāntyā saumyatayāpi ca. śaśinaṃ vaktracandreṇa sāhvayantīva gacchatī. divyāṅgarāgau sumukhau divyacandanarūṣitau. gacchantyā hāravikacau stanau tasyā vavalgatuḥ. stanodvahanasaṃkṣobhān nāmyamānā pade pade. trivalīdāmacitreṇa madhyenātīva śobhinā. adho bhūdharavistīrṇaṃ nitambonnatapīvaram. manmathāyatanaṃ śubhraṃ rasanādāmabhūṣitam. ṛṣīṇām api divyānāṃ manovyāghātakāraṇam. sūkṣmavastradharaṃ reje jaghanaṃ niravadyavat. gūḍhagulphadharau pādau tāmrāyatatalāṅgulī. kūrmapṛṣṭhonnatau cāpi śobhete kiṅkiṇīkiṇau. sīdhupānena cālpena tuṣṭyātha madanena ca. vilāsanaiś ca vividhaiḥ prekṣaṇīyatarābhavat. siddhacāraṇagandharvaiḥ sā prayātā vilāsinī. bahvāścarye 'pi vai svarge darśanīyatamākṛtiḥ. susūkṣmeṇottarīyeṇa meghavarṇena rājatā. tanur abhrāvṛtā vyomni candralekheva gacchatī. tataḥ prāptā kṣaṇenaiva manaḥpavanagāminī. bhavanaṃ pāṇḍuputrasya phālgunasya śucismitā. tatra dvāram anuprāptā dvārasthaiś ca niveditā. arjunasya naraśreṣṭha urvaśī śubhalocanā. upātiṣṭhata tad veśma nirmalaṃ sumanoharam. sa śaṅkitamanā rājan pratyudgacchata tāṃ niśi. dṛṣṭvaiva corvaśīṃ pārtho lajjāsaṃvṛtalocanaḥ. arjuna uvāca. tadābhivādanaṃ kṛtvā gurupūjāṃ prayuktavān. abhivādaye tvāṃ śirasā pravarāpsarasāṃ vare. kim ājñāpayase devi preṣyas te 'ham upasthitaḥ. vaiśaṃpāyana uvāca. phālgunasya vacaḥ śrutvā gatasaṃjñā tadorvaśī. urvaśy uvāca. gandharvavacanaṃ sarvaṃ śrāvayām āsa taṃ tadā. yathā me citrasenena kathitaṃ manujottama. tat te 'haṃ saṃpravakṣyāmi yathā cāham ihāgatā. upasthāne mahendrasya vartamāne manorame. tavāgamanato vṛtte svargasya paramotsave. rudrāṇāṃ caiva sāṃnidhyam ādityānāṃ ca sarvaśaḥ. samāgame 'śvinoś caiva vasūnāṃ ca narottama. maharṣīṇāṃ ca saṃgheṣu rājarṣipravareṣu ca. siddhacāraṇayakṣeṣu mahoragagaṇeṣu ca. upaviṣṭeṣu sarveṣu sthānamānaprabhāvataḥ. ṛddhyā prajvalamāneṣu agnisomārkavarṣmasu. vīṇāsu vādyamānāsu gandharvaiḥ śakranandana. divye manorame geye pravṛtte pṛthulocana. sarvāpsaraḥsu mukhyāsu pranṛttāsu kurūdvaha. tvaṃ kilānimiṣaḥ pārtha mām ekāṃ tatra dṛṣṭavān. tatra cāvabhṛthe tasminn upasthāne divaukasām. tava pitrābhyanujñātā gatāḥ svaṃ svaṃ gṛhaṃ surāḥ. tathaivāpsarasaḥ sarvā visṛṣṭāḥ svagṛhaṃ gatāḥ. api cānyāś ca śatrughna tava pitrā visarjitāḥ. tataḥ śakreṇa saṃdiṣṭaś citraseno mamāntikam. prāptaḥ kamalapatrākṣa sa ca mām abravīd atha. tvatkṛte 'haṃ sureśena preṣito varavarṇini. priyaṃ kuru mahendrasya mama caivātmanaś ca ha. śakratulyaṃ raṇe śūraṃ rūpaudāryaguṇānvitam. pārthaṃ prārthaya suśroṇi tvam ity evaṃ tadābravīt. tato 'haṃ samanujñātā tena pitrā ca te 'nagha. tavāntikam anuprāptā śuśrūṣitum ariṃdama. tvadguṇākṛṣṭacittāham anaṅgavaśam āgatā. vaiśaṃpāyana uvāca. cirābhilaṣito vīra mamāpy eṣa manorathaḥ. tāṃ tathā bruvatīṃ śrutvā bhṛśaṃ lajjāvṛto 'rjunaḥ. uvāca karṇau hastābhyāṃ pidhāya tridaśālaye. duḥśrutaṃ me 'stu subhage yan māṃ vadasi bhāvini. gurudāraiḥ samānā me niścayena varānane. yathā kuntī mahābhāgā yathendrāṇī śacī mama. tathā tvam api kalyāṇī nātra kāryā vicāraṇā. yac cekṣitāsi vispaṣṭaṃ viśeṣeṇa mayā śubhe. tac ca kāraṇapūrvaṃ hi śṛṇu satyaṃ śucismite. iyaṃ pauravavaṃśasya jananī muditeti ha. tvām ahaṃ dṛṣṭavāṃs tatra vijñāyotphullalocanaḥ. na mām arhasi kalyāṇi anyathā dhyātum apsaraḥ. guror gurutarī me tvaṃ mama vaṃśavivardhinī. urvaśy uvāca. anāvṛtāś ca sarvāḥ sma devarājābhinandana. gurusthāne na māṃ vīra niyoktuṃ tvam ihārhasi. pūror vaṃśe hi ye putrā naptāro vā tv ihāgatāḥ. tapasā ramayanty asmān na ca teṣāṃ vyatikramaḥ. tat prasīda na mām ārtāṃ visarjayitum arhasi. hṛcchayena ca saṃtaptāṃ bhaktāṃ ca bhaja mānada. arjuna uvāca. śruṇu satyaṃ varārohe yat tvāṃ vakṣyāmy anindite. śṛṇvantu me diśaś caiva vidiśaś ca sadevatāḥ. yathā kuntī ca mādrī ca śacī caiva mamānaghe. tathā svavaṃśajananī tvaṃ hi me 'dya garīyasī. gaccha mūrdhnā prapanno 'smi pādau te varavarṇini. vaiśaṃpāyana uvāca. tvaṃ hi me mātṛvat pūjyā rakṣyo 'haṃ putravat tvayā. evam uktā tu pārthena urvaśī krodhamūrchitā. vepantī bhrukuṭīvakrā śaśāpātha dhanaṃjayam. urvaśy uvāca. tava pitrābhyanujñātāṃ svayaṃ ca gṛham āgatām. yasmān māṃ nābhinandethāḥ kāmabāṇavaśaṃ gatām. tasmāt tvaṃ nartanaḥ pārtha strīmadhye mānavarjitaḥ. vaiśaṃpāyana uvāca. apumān iti vikhyātaḥ ṣaṇḍhavad vicariṣyasi. evaṃ dattvārjune śāpaṃ sphuradoṣṭhī śvasanty atha. punaḥ pratyāgatā kṣipram urvaśī gṛham ātmanaḥ. tato 'rjunas tvaramāṇaś citrasenam ariṃdamaḥ. saṃprāpya rajanīvṛttaṃ tad urvaśyā yathā tathā. nivedayām āsa tadā citrasenāya pāṇḍavaḥ. tatra caivaṃ yathāvṛttaṃ śāpaṃ caiva punaḥ punaḥ. nyavedayac ca śakrasya citraseno 'pi sarvaśaḥ. tata ānāyya tanayaṃ vivikte harivāhanaḥ. sāntvayitvā śubhair vākyaiḥ smayamāno 'bhyabhāṣata. suputrādya pṛthā tāta tvayā putreṇa sattama. ṛṣayo 'pi hi dhairyeṇa jitā vai te mahābhuja. yat tu dattavatī śāpam urvaśī tava mānada. sa cāpi te 'rthakṛt tāta sādhakaś ca bhaviṣyati. ajñātavāso vastavyo yuṣmābhir bhūtale 'nagha. varṣe trayodaśe vīra tatra tvaṃ kṣapayiṣyasi. tena nartanaveṣeṇa apuṃstvena tathaiva ca. varṣam ekaṃ vihṛtyaiva tataḥ puṃstvam avāpsyasi. evam uktas tu śakreṇa phālgunaḥ paravīrahā. mudaṃ paramikāṃ lebhe na ca śāpaṃ vyacintayat. citrasenena sahito gandharveṇa yaśasvinā. reme sa svargabhavane pāṇḍuputro dhanaṃjayaḥ. ya idaṃ śruṇuyān nityaṃ vṛttaṃ pāṇḍusutasya vai. na tasya kāmaḥ kāmeṣu pāpakeṣu pravartate. idam amaravarātmajasya ghoraṃ. śuci caritaṃ viniśamya phālgunasya. vyapagatamadadambharāgadoṣās. tridivagatābhiramanti mānavendrāḥ.