द्रौपद्य् उवाच। नमो धात्रे विधात्रे च यौ मोहं चक्रतुस् तव। पितृपैतामहे वृत्ते वोढव्ये ते ऽन्यथा मतिः। कर्मभिश् चिन्तितो लोको गत्यागत्या पृथग्विधः। तस्मात् कर्माणि नित्यानि लोभान् मोक्षं यियासति।
draupady uvāca. namo dhātre vidhātre ca yau mohaṃ cakratus tava. pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ. karmabhiś cintito loko gatyāgatyā pṛthagvidhaḥ. tasmāt karmāṇi nityāni lobhān mokṣaṃ yiyāsati.