कुतश् च कवचं तस्य कुण्डले चैव सत्तम। एतद् इच्छाम्य् अहं श्रोतुं तन् मे ब्रूहि तपोधन। यत् तद् विवस्वतो गुह्यं यादृशे कुण्डले च ते। उभयं तद् यथा ब्रह्मंस् तन् ममाचक्ष्व सत्तम।
kutaś ca kavacaṃ tasya kuṇḍale caiva sattama. etad icchāmy ahaṃ śrotuṃ tan me brūhi tapodhana. yat tad vivasvato guhyaṃ yādṛśe kuṇḍale ca te. ubhayaṃ tad yathā brahmaṃs tan mamācakṣva sattama.