मार्कण्डेय उवाच। स्कन्दस्य पार्षदान् घोराञ् शृणुष्वाद्भुतदर्शनान्। वज्रप्रहारात् स्कन्दस्य जज्ञुस् तत्र कुमारकाः। ये हरन्ति शिशूञ् जातान् गर्भस्थांश् चैव दारुणाः।
mārkaṇḍeya uvāca. skandasya pārṣadān ghorāñ śṛṇuṣvādbhutadarśanān. vajraprahārāt skandasya jajñus tatra kumārakāḥ. ye haranti śiśūñ jātān garbhasthāṃś caiva dāruṇāḥ.