दृष्टीविषैः सप्तशीर्षैर् गुप्तं भोगिभिर् अद्भुतैः। रक्षोभिश् च पिशाचैश् च रौद्रैर् भूतगणैस् तथा। राक्षसीभिश् च संपूर्णम् अनेकैश् च मृगद्विजैः। नदीप्रस्रवणोपेतं नानातरुलताचितम्।
dṛṣṭīviṣaiḥ saptaśīrṣair guptaṃ bhogibhir adbhutaiḥ. rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā. rākṣasībhiś ca saṃpūrṇam anekaiś ca mṛgadvijaiḥ. nadīprasravaṇopetaṃ nānātarulatācitam.