तम् अहम् अब्रुवम्। न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहे ऽर्थानाम् अनुष्ठानम्। एवम् उक्तः स राजर्षिर् इन्द्रद्युम्नः पुनर् माम् अब्रवीत् । अथास्ति। कश् चित् त्वत्तश् चिरजाततर इति । तं पुनः प्रत्यब्रुवम् ।। तम् अहम् अब्रुवम् । आकुलत्वात् कार्यचेष्टानां न प्रत्यभिजाने। ऽहम् । स माम् उवाच । अस्त्य् अन्यश् चिरजाततर इति । तम् अब्रुवम् ।।
tam aham abruvam. na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam. evam uktaḥ sa rājarṣir indradyumnaḥ punar mām abravīt | athāsti. kaś cit tvattaś cirajātatara iti | taṃ punaḥ pratyabruvam |. tam aham abruvam | ākulatvāt kāryaceṣṭānāṃ na pratyabhijāne. 'ham | sa mām uvāca | asty anyaś cirajātatara iti | tam abruvam |.