फेनवत्यः प्रकीर्णाश् च संहताश् च समुच्छ्रिताः। ऊर्मयश् चात्र दृश्यन्ते चलन्त इव पर्वताः। नावः सहस्रशस् तत्र रत्नपूर्णाः समन्ततः। नभसीव विमानानि विचरन्त्यो विरेजिरे।
phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ. ūrmayaś cātra dṛśyante calanta iva parvatāḥ. nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ. nabhasīva vimānāni vicarantyo virejire.