न त्वम् अद्य युधा जेतुं शक्यः सुरगणैर् अपि। किं पुनर् मानुषे लोके मानुषैर् अकृतात्मभिः। अप्रमेयो ऽप्रधृष्यश् च युद्धेष्व् अप्रतिमस् तथा। अजेयस् त्वं हि संग्रामे सर्वैर् अपि सुरासुरैः।
na tvam adya yudhā jetuṃ śakyaḥ suragaṇair api. kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ. aprameyo 'pradhṛṣyaś ca yuddheṣv apratimas tathā. ajeyas tvaṃ hi saṃgrāme sarvair api surāsuraiḥ.